________________ नयचक्रम् / [चक्षुर्विज्ञानसमङ्गी वा स्वार्थोऽन्यापृथक्त्वादर्थान्तरकल्पने तस्य ज्ञानस्यापटुत्वात् / तच्च विज्ञानमुत्पादयितुं शिविकोद्वाहकवत्संहत्य समर्थाः परमाणवो नान्यथेति। सामान्यगोचरताऽस्तु। को दोषः ? / यदि तद्भिन्नेष्वभेदं यदुत्पद्येत तस्मात्कल्पनात्मकं / न तु भिन्नेध्वभेदैकाकारपरिकल्पनात्तदुत्पद्यत इति / अस्यार्थस्य दृष्टान्तः, यथा हि-शमीशाखापत्रेष्वित्यादि / यथा सर्वपत्रालम्बनं ज्ञानमन्तादिमध्याविवेकेनोत्पद्यते / एवं प्रत्यक्षमपि / स्यान्मतम्-तव्यतिरेकेण पत्रे समुदाये च यथा ज्ञानं प्रत्यक्षमपि तथा स्यादिति, एतच्चायुक्तं / न च सङ्घातः कश्चिदेकोऽस्ति / तेषामनारब्धलक्षणकायत्वात् / न हि समुदायो वैशेषिककल्पितकायद्रव्यवत् पृथगस्ति / नापि परिणामान्तरमापन्नं / तेषां कारणभूतानां क्षणिकत्वादारभ्य निष्ठाकालभेदावस्थानाभावादिति / एवमणुष्वपीति दार्शन्तिकं निदर्शयति / अत्रोत्तरमुच्यते-अयमसमाधिरेव / कुतः / अर्थस्यास्य जरत्कुटीरवदारोहणाक्षमत्वात् / त्वद्वाक्यजनितस्य प्राक्चोदितापायस्यायं समाधिरप्यसमाधिरेवाङ्गीकृतार्थविनाशित्वात् / शब्दकृतकत्वाभिव्यक्तिस्थापनार्थप्रवृत्तवैशेषिकवत् / वैशेषिकस्येव वैशेषिकवत् / अचाक्षुषप्रत्यक्षस्य गुणस्य सतोऽपवर्गः / कर्मभिः साधयं सतो लिङ्गाभावात्कायत्वादित्यादिभिरनित्यत्वं वैशेषिकत्वात्सिद्धं कृतकत्वं च तस्याभिव्यक्तिस्थापनार्थप्रवृत्तस्य वैशेषिकस्येवाङ्गीकृतार्थनाशित्वमेवमनेकार्थजन्यत्वात् स्वार्थ सामान्यगोचरमित्यर्थवचनयोर्दोषः / तयाचष्टे कुतस्तत्साधर्म्यमिति चेदुच्यते-अविषयतां प्रतिज्ञाय तदतद्विषयतया तदतद्भूतसामान्यगोचरोपसंहारात् / स चासंश्च विषयोऽस्य संस्तदतद्विषयस्तदभावस्तदतद्विषयता तदतद्भूतं सामान्यं तद्गोचरोऽस्य विषय उपसंहारस्य तस्मादुपसंहारात् / स चान्यश्च विषयः सामान्यसेति / तदन्यतरत्नैर्वं न प्रवर्तते / एकतरत्वादृष्टत्वात् / त्वन्मतेनैव प्रतिष्ठं नियतत्वाद्भावानां नैकरूपमपि / तत्र च तत्र वृत्तं न चातोऽन्यत्र तत्रावृत्तत्वात्तन्न भवत्यतत्रावृत्तत्वादतन्न भवति / न ततस्तदतद्भूतं सामान्यं गोचरोऽस्योपसंहारस्य यः स तदतद्विषयतया त्वयाङ्गीक्रियते / तस्मात्तदतद्विषयतया तदतद्भूतसामान्यगोचरोपसंहारादङ्गीकृतप्रत्यक्षविनाश इत्यत आह-नन्वत एव न प्रत्यक्षं / खार्थे सामान्यगोचरत्वादनुमानवत् / स्वार्थ इति स्वविषये स्वग्राह्ये वस्तुनि, सामान्यगोचरत्वाद् ज्ञानमप्रत्यक्षं दृष्टम् / यथानुमानमिति, अनुमानमपि वा नेति नानुमानमपि तत् स्यात् स्वार्थे सामान्यगोचरत्वात् प्रत्यक्षवत् / स्वार्थ सामान्यगोचरमित्येतत्स्ववचनविरोधे, किमिव ? कुमारब्रह्मचारिपितृवचनवचैतत् / यथा कश्चिद् ब्रूयात् पिता मे कुमारब्रह्मचारीति / तस्य तद्वचनं खत 1 प्राज्ञ क-ख / 2 वैशेषिकस्यैवाऽधैशेषिकत्वात क-ख / 3 स्व० / 4 व क-ख / 5 त्वयेदानी ग।