________________ 73 तिविचारणा ] न्यायागमानुसारिण्थलकृतम् / एव विरुध्यते। यदि पिता कथं कुमारब्रह्मचारी ? / अथ कुमारब्रह्मचारी कथं पितेति। तथेदमपि यदि तद् ज्ञानं स्वार्थ कथं सामान्यगोचरमथ सामान्यगोचरं कथं तत्स्वार्थे ? स्वार्थ इति च त्वया न चक्षुषोऽन्यस्य वेन्द्रियस्य विषय इति विशेषमाश्रित्य लक्षणमभिधीयते / किं तर्हि ? प्रमेयमुच्यते-सामान्यतो वस्तु स्वलक्षणं स्वार्थ इति, तथा सामान्य लक्षणमिति न धूमानुमेयाग्निमात्रं / किं तर्हि ? लिङ्गगम्यं सर्व / एतस्यार्थस्य प्रतिपादनार्थमाह-वार्थलक्षणमेव निरूपयन् अस्वार्थविशिष्टे, स्वोऽर्थः स्वार्थः / न स्वार्थः अस्वार्थः स्वार्थादन्यस्ततो विशिष्टः स्वार्थः तस्मिन् स्वार्थे / तमेवार्थ पर्यायेनाह-वविषये / किमुक्तं भवति? एकस्मिनूपादिप्रकारे प्रकृष्ट कारे रूपे रसेऽन्यसिमेव सामान्यगोचरमिति सामान्यविषयं च स्वार्थे ज्ञानमिति च विस्पर्धितमेतत्परस्परतो द्वयम् / यसादर्थविषयशन्दौ लक्षणार्थावेव लक्षणशब्दपर्यायवाचिनौ / तस्मात् स्वार्थः स्वविषयस्खलक्षणमित्येतद्विपक्षितं भवतस्तद्विस्मृत्य भ्रान्तेन नेन्द्रियग्राह्यस्वार्थसामान्यभेदकल्पनापरिहारो युज्यते वक्तुं / कस्मात् ? प्रत्यक्षव्याख्याविषयत्वात् / स्वार्थस्खलक्षणस्वविषयशब्दानां मा मंस्था नैतदेवं न भवतीति / उक्तं हि प्रमाणसंख्यानिरूपणे त्वयैव 'प्रत्यक्षमनुमानं च, प्रमाणे इत्यादि प्रमाण द्वित्वं नियम्यते, प्रमेयद्वित्वात् परिमेयद्वित्वनियतप्रस्थतुलादिपरिमाणद्वित्ववत् / तदर्शयति-यसाल्लक्षणद्वयं प्रमेयं स्यादन्यत् प्रमेयान्तरं स्वसामान्यद्वित्वरूपलक्षणं तदपेक्षया प्रमाणान्तरं स्यादिति तन्निवारणार्थमाह-न हि स्वसामान्यलक्षणाभ्यामन्यत् प्रमेयमस्ति / प्रत्यक्षानुमानाभ्यामप्रहणात् खरविपाणवत् / स्यान्मतं-तत्रैव विषयद्वये विकल्पसमुच्चयाङ्गाङ्गीभावैः प्रत्यक्षानुमानागमादीनां प्रमाणानां वृत्तिर्भविष्यतीति / तन्न भवति यस्मात् स्वलक्षणविषयनियतं प्रत्यक्षं सामान्यलक्षणविषयनियतमनुमानमित्युक्तम् / कथं पुनर्लक्षणशब्दोऽर्थपर्यायः? अयते गम्यत इत्यर्थः / तथा लक्ष्यत इति लक्षणं, कर्मसाधनत्वाल्लक्षणशब्दस्य / तच्च लक्षणं वस्तुस्वभावः। स्वरूपमर्थः प्रमेयमिति पर्यायाः। तत्पुनर्द्विरूपं परिच्छेद्यम् / द्वाभ्यां प्रमाणाभ्यां परिच्छेद्यत्वात्, प्रमाणं परिच्छेदकम् / प्रमेयं परिच्छेद्यमित्यर्थः / यस्माल्लोके दृष्टं प्रमेयाधिगमनिमित्तं प्रमाणम् / हिशब्दस्य हेत्वर्थत्वात् / प्रमेयाधिगमनिमित्तं हि प्रमाणमिति।नो चेत् अग्निहोत्रं जुहुयात् स्वर्गकामो, दानं दद्याद्धर्मकाम' इत्येवमाद्यागमवदृष्टार्थे प्रत्यक्षं दृष्टार्थमेवैतदुपलम्भकत्वाद् , उपलभ्यस्य द्विविषय दृष्टत्वात् / न च प्रमाणयोः विषयसङ्कर इति प्रागुक्तयुक्तिकां विविक्तविषयतां दर्शयति / इतिशब्दः प्रदर्शने / एतावानत्र संक्षेपेणार्थस्तद्विस्तरपरो ग्रन्थ इति सूचयति / 1 तन्त्र क-ख / 2 गन्ध ग। न. च. 10