________________ 74 नयचक्रम् / [चक्षुर्विज्ञानसमङ्गीइदानी व्यवस्थापितार्थोपसंहारार्थमिदं वाक्यमाह-अधिगम्यस्य द्वित्वात् / अधिगमनिमित्तं द्विरूपमित्येवं व्यवस्थापिते लक्षणशब्दोऽर्थपर्यायवाची नेन्द्रियग्राह्य इति विशेषार्थः प्राक् कृत इत्येतसिंचार्थे स्थिते प्रत्यक्षानुमानयोः स्वरूपाभावः स्ववचनविरोधश्च दोषाः स्वाथै सामान्यगोचरमिति ब्रुवतःप्रोक्तविधिनेति स्थितम् / पुनश्चात्र दोषः / एवमवस्थिते सामान्यगोचरव्यावृत्तार्थेन भवितव्यम् / ततः को दोषः ? / स्वार्थे सामान्यगोचरमित्येतद्विरुध्यते / न हि तादृशः स्वार्थेऽस्य सामान्यतासम्बन्धोऽस्ति / नापि सामान्यस्य स्वार्थसम्बन्ध इति मा भूदेष दोष इति / तस्मिन्नेव सामान्ये स्वविषये स्वार्थे प्रत्यक्षं ज्ञानमुत्पद्यत इति चेत्तत एव सामान्यमेव स्वविषयः स्खलक्षणं नास्त्यतः पारिभाषितासाधारणस्वलक्षणविषयाभावादेवं कल्प्यमाने लक्षणद्वयं नास्ति / एकमेव, सामान्यलक्षणद्वयाभावात्तद्विषयमेकमेवानुमानं प्रमाणं स्यात् / ततश्च प्रमेयप्रमाणद्वित्वावधारणे कल्पना व्यर्थी / मा भूदवधारणवैयर्थ्यमिति स्वार्थे सामान्ये च प्रत्यक्षं प्रवृत्तं तथानुमानं वेति प्रमाणयोर्वा विषयसङ्करः प्राप्तः / वाशब्दादेकस्य ज्ञानस्य ह्यर्थता वा प्रत्यक्षमपि वा परपरिकल्पितमनुमानभेद एव स्यात् / कस्माद्धेतोः?, अनेकार्थजनितसामान्यचरगोरूपादिप्रकारपरिग्रहात् / मा ज्ञासीरसिद्धोऽयं हेतुरिति, त्वयैवोक्तं हि तत्रानेकार्थजन्यत्वात् स्वार्थे सामान्यगोचरमिति / अनेकेन भिन्नार्थेन नाभिन्नमेकं सामान्य रूपं रस इत्यादिप्रकारं परिगृह्योत्पद्यमानं ज्ञानं तेन जनितं तत्तस्मादनेकार्थजनितसामान्यगोचररूपादिप्रकारपरिग्रहात्तस्य ज्ञानस्य / को दृष्टान्तः? / धूमबलाकालिङ्गजनित. ज्ञानवत् / धूमादत्राग्निबेलाकाभ्योऽत्र जलमिति लिङ्गजनितयोरग्निजलज्ञानयोरपि स्वरूपतोऽनुमानत्वाभेदः / एवं रूपादिपूत्पद्यमानानां प्रत्यक्षाभिमतानामनुमानत्वाभेदः। एतस्मादेव हेतोरस्खलक्षणविषयत्वं च / अस्वलक्षणविषयं प्रत्यर्थमनेकार्थजनितसामान्यगोचररूपादिप्रकारपरिग्रहादनुमानवदुभयत्रेत्यनेनानुमानेनाऽप्यस्वलक्षणविषयत्वम् / तत एव हेतोरनन्तरभावि प्रत्यक्षवत् , अथवोभयत्रेति स्वलक्षणे सामान्यलक्षणे च स्खलक्षणविषयत्वं,कथम्? स्खलक्षणाभिमतमस्खलक्षणमनेकैकीभावा समुदायवत् , तस्मात्सामान्यमपि न स्खलक्षणम् / अत एवानन्तरोक्तसमुदायवत्सामान्यावलक्षणत्वम् / सिद्धं साध्यत इति चेन्न, स्वार्थ एव सामान्यगोचरमिति वचनात् स्वार्थत्वे चाभ्युपगतत्वादिति / अवश्यं चैतदेवमभ्युपगन्तव्यम् / यतः शमीशाखापत्रसङ्घाताविशेषदर्शनोदाहरणेन च स्फुटमेव दर्शितमप्रत्यक्षत्वमनुमानत्वमप्रमाणत्वमस्खलक्षणविषयत्वं विषयसङ्कर इत्येवमादिदोषजातमनेकैकत्वापत्तिसामान्यगोचरः / स एव स्खलक्षणसामान्यगोचर एव स्खलक्षणः / असावेवार्थः प्रत्यक्षस्ये १०मेव ख। 2 स्फुरणव ग।