SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ नयचक्रस्य पेक्ष्यन्ते, मत-मतान्तरीय-मन्तव्यनिदर्शनार्थमत्र चर्चितानामवतारितानां प्राचीनप्रमाणग्रन्थानां तादृशी सन्निहिता सामग्री, तद्विचारणार्थं समुचिता प्रतिभाऽप्यपेक्ष्यते, अशुद्धिबहुलात् प्राचीनलिखितपुस्तकात् सम्यक् सम्पादनकौशलमप्यपेक्ष्यते; अपेक्षितस्यैतस्य सर्वस्य न्यूनतायामपि मन्दबुद्धिनाऽपि मयैतत् साहसकर्मानुष्ठितम् , प्राक्सम्पादकेनापूर्णः स्थापितोऽस्य ग्रन्थस्य प्रथमो भागो यथाकथञ्चित् संशोध्य समय॑ते तार्किकेभ्यः / क्षन्तव्योऽहमत्र, विशालबुद्धिशालिभिर्विद्वद्भिः सम्यक् संशोधनादि कर्तव्यम् , पठन-पाठनादिना शास्त्रीय रहस्यं विचारणीयम् / आनन्दजनकं तु श्रूयतेऽस्य ग्रन्थस्यास्यां ग्रन्थमालायां सम्पादनं श्रुत्वा, सम्पादितं च दृष्ट्वा केचन जैनाचार्य-मुनयोऽन्यत्र समीचीनसम्पादनकर्मणि प्रोत्साहिनोऽभवन् / एवमपि प्रकाशतामागच्छतु प्रमोदावहो भारतीयप्रतिभाप्रकर्ष इत्याशास्ते गान्धीत्युपाहः सं. 2007 विजयादशम्याम् / .. वटपद्रे प्राच्यविद्यामन्दिरे / श्रीभगवान्श्रेष्ठितनुजः लालचन्द्रः।
SR No.004328
Book TitleDwadashar Naychakram Part 01
Original Sutra AuthorN/A
AuthorChaturvijay, Lalchandra Bhagwandas
PublisherOriental Research Institute Vadodra
Publication Year1952
Total Pages384
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy