________________ प्रस्तावना सम्पादन-निवेदनम् / प्रस्तुतायां गायकवाडप्राच्यग्रन्थमालायां [ क्र. 30-31] बौद्धदर्शनानुसारी शान्तरक्षितकृतस्तत्त्वसङ्ग्रहः कमलशीलकृतया पञ्जिकया सहितः प्राग् ईखीसन् 1926 वर्षे प्रकाशतामागतः, तथा [क्र. 38] न्यायप्रवेशोऽपि हरिभद्रसूरिरचितया टीकया, पार्श्वदेवगणिविहितया पञ्जिकया च समुपेतः ईस्वीसन् 1930 वर्षे प्रकाशितः, अन्यदर्शनमतानुसारिणोऽन्येऽपि ग्रन्थाः प्रसिद्धिमागताः; एवं जैनदर्शनानुसारिणोऽस्य नयचक्रस्य प्रकाशनमत्र समुचितं व्यचारि। इतो विंशत्या वर्षेभ्यः प्राक् प्रारब्धमासीदेतस्य महतस्तर्कप्रधानस्य गहनस्य ग्रन्थस्य सम्पादनम्, किन्तु 'श्रेयांसि बहुविघ्नानि' इति प्रचलितोक्तिरत्र प्रबलाऽजनि / अस्य प्रागनियुक्तसम्पादकेन यथाप्राप्ता लिखिता प्रतिकृतिर्विशिष्टां सम्पादकपद्धतिमुपेक्ष्य, विनाऽन्यप्रतिसम्मेलनम् , विनाऽऽवश्यकपाठान्तरादियोजनाम् , विना मूल-व्याख्या-पृथक्करणविवेकम् , विना पूर्वपक्षोत्तरपक्षादिविशिष्टविभागस्पष्टताम् , विहाय ग्रन्थान्तर्गत-प्रोद्धतप्रामाणिकप्रमाणपाठानां समुचितां व्यवस्थाम् , अनादृत्यान्तर्गतप्राकृतपाठानां संस्कृतां छायाम् , एवमेव मुद्रणालये प्रेषिताऽऽसीत्, कथंचिदस्मदृष्टिपथ आनायितमशुद्धिबहुलं प्रारम्भ'प्रूफ'पत्रादि, तदानीं मया यथामति मार्गदर्शनाय निवेदनं कृतमासीत् , प्राथमिकान्यष्टपत्राणि सम्पाद्य प्रदर्शितान्यपि / कियत्कालं सम्पादकाय समुचितसम्पादनार्थमवसरोऽपि दत्तः, एवं चिरं कार्य स्थगितमासीत् / प्राक्तनेनैव सम्पादकेन निजमान्य-गुरुमान्य-मुद्रणालयादिमान्धादनन्तरं चिरात् पुनरपि प्रारभ्यैतत्सम्पादनं कथञ्चित् 232 पृष्ठं यावदानीतम् , तावता दैवयोगात् सं. 2000 वर्षे दीपोत्सवदिवसे विक्रमपुरे(बीकानेर, मारवाड-मध्ये) निराधारं विहायैतत्-सम्पादको मुनिचतुरविजयः ( दक्षिणविहारि-मुनिश्रीअमरविजयशिष्यः) दिवं गतवान् / तदनन्तरं कियता कालेन तत्स्थानात् सन्निहितसन्मान्याचार्यश्रीविजयवल्लभसूरिसकाशात् तदीयावशिष्टप्रति-पत्र-पुस्तकादि अत्रानायि, मुद्रणालये च पतितं 'प्रूफ' प्रतिकृति-प्रभृत्यप्यत्र प्रत्यग्राहि / 233 पृष्ठतोऽवशिष्टस्य प्रथमभागस्य सम्पादनकार्यभारो मयि समारोपि तदानीन्तनेन ग्रन्थमालाया मुख्यसम्पादकेन डॉ. विनयतोष-भट्टाचार्येण / एताहक्तर्ककर्कशस्य मत-मतान्तरीय-शास्त्रार्थ-विचार-ज्ञानगहनस्य विविधदर्शनशास्त्रसमीक्षात्मकस्य वाद-विवाद-प्रतिवादजटिलस्य, विशालवाङ्मयावगाहनागाधस्य प्रतिभाप्रबल - वाचोयुक्तिविशिष्टस्य ग्रन्थस्य सम्पादने तादृग् विशिष्टं बुद्धिपाटवमपेक्ष्यते, तादृग् विशालं ज्ञानमपेक्ष्यते, तादृशी स्मृति-धारणादिशक्तिरप्यपेक्ष्यते, प्राचीनाः शुद्धा आदर्शप्रतयोऽप्य