________________ 3 . नयचक्रस्य तेभ्यो नमस्तदीयान् स्तुवे गुणांस्तेषु मे दृढा भक्तिः। अनवरतं चेष्टन्ते, जिनवचनोभासनार्थ ये // 5 // श्रेयोऽस्तु / सुमहानप्ययमुच्चैः, पक्षेणैकेन पूरितो ग्रन्थः / कर्णामृतं पटुधियां, जयति चरित्रं पवित्रमिदम् // 6 // " [2] भ. भावनगर( सौराष्ट्र स्थानीयायाः श्रेष्ठि-'डोसाभाई अभेचंद पेढी' संज्ञिकाया जैनसङ्घ-संस्थायाः 10x4" प्रमाण-५७२-पत्रामिका शुद्धाशुद्धा स्थूलाक्षरमयी प्रतिः, श्रीयुत 'कुंवरजीभाई आणंदजी' श्रीजैनधर्मप्रसारकसभायाः प्रमुख इत्यस्मादधिगताऽऽसीद्, प्रतिपत्रं 'नयचक्रवालवृत्ति' इत्यक्षराङ्किता साऽत्र पाठान्तरप्रदर्शने भ. संज्ञया व्यवहृता / तत्र प्रति-प्रान्ते लेखयितुः परिचय ईश उपलभ्यते "श्रीआर्यरक्षितगुरोः प्रसृते विशाले, गच्छे लसन्मुनिकुले विधिपक्षनानि / सूरीश्वरा गुणनिधान-सुनामधेया, आसन् विशुद्धयशसो जगति प्रसिद्धाः // 1 तत्पट्टपद्मतरणिस्तरणिर्भवाब्धौ, श्रीधर्ममूर्तिरिति सूरिवरो विभाति / सौभाग्य-भाग्य-मुखसद्गुणरत्न-रनगोत्रः पवित्रचरितो महितो विनेयः // 2 तेन स्वश्रेयसे ज्ञानभांडागारे हि लेखिते। नन्दतान्नयचक्रोरु तुंबपुस्तकमुत्तमम् // 3 पुंजो मुंजोपमो लक्ष्म्या, मंत्रिगोविंदनन्दनः / श्रीगुरोराज्ञया सुज्ञः, शास्त्रमिदमलीलिखत् // 4" धर्ममूर्तिसूरि-विद्यमानता विक्रमीयसप्तदशशताब्यामासीद् इति ज्ञायते तत्प्रतिष्ठितप्रतिमाऽऽदिलेखेन, लेखितागमाधुलेखेन, विधिपक्षाञ्चलगच्छ-पट्टावल्यादिनिर्देशेन च। अत एतस्याः पुस्तिकाया लेखनकालोऽत्रानिर्दिष्टोऽपि स एव सप्तदशशताब्दी-मध्यभागः सम्भाव्यते। * धर्ममूर्तिसूरिसदुपदेशेन ज्ञानभाण्डागारे लेखिते मन्त्रिगोविन्दनन्दनेन श्रीमता पुञ्जन लेखिता एषा प. आदर्शात् प्राचीना प्रतिरत्र चिरं सम्पादनार्थ धृता, विलम्बेन च पश्चात् प्रेषिता; धैर्यधारिणां संस्थाऽधिकारिणामुपकारं स्मरामः / उपर्युक्तपुस्तिकाद्वयस्यापि प्रारम्भ-प्रान्त्यपत्रद्वयस्य 'फोटो प्रतिकृतिरत्र प्रयोजिता / / उपकृतं चैवं सार्थकनामधेयाभ्यां विद्वद्वर्यमुनिश्रीपुण्यविजय-जम्बूविजयाभ्या, याभ्यां सम्पादनार्थ कृता खकीया नयचक्रारद्वयस्य तृतीय-चतुर्थस्य प्रतिकृतिरसत्रार्थनयाऽत्र प्रैषि / aawww