________________ प्रस्तावना 37 सम्पादन आधारभूताः पुस्तिकाः। [1] प. पत्तन-(फोफलिया वाडा, आगली शेरी)-तपागच्छजैनसङ्घभाण्डागारीया 10"x4" प्रमाणोपेता शुद्धाशुद्धप्रतिः प्रान्तपत्रविरहिता 469 पत्रात्मिका, मुख्यतया तदाधारण जाता एतस्य ग्रन्थस्य प्रतिकृतिरत्र सम्पादने उपयुक्ताऽभवत् / एतस्याः प्रतेश्च 'फोटोस्टेट' साधन-द्वारा कारिता एका प्रतिकृतिरत्र वटपद्रीयप्राच्यविद्यामन्दिरे स्थापिता / एतस्याः प्रारम्भे (पृ. 1 टि.) .....पं. नयविजयगणिगुरुभ्यो नमः' निर्देशादनन्तरमिदं पद्यम् "प्रणिधाय परं रूपं, राज्ये श्रीविजयदेवसूरीणाम् / नयचक्रस्यादर्श, प्रायो विरलस्य वितनोमि // ऐं नमः।" . इत्यत एतत् प्रति-पुस्तकं तपागच्छनायक-श्रीविजयदेवसूरिराज्ये [वि. सं. 1671-1713 ) पं. नयविजयगणिगुरु-शिष्येण 'ऐं नमः' इति सरखतीमत्रपदाङ्कितमङ्गलसङ्केतेन सुप्रसिद्धन्यायविशारद-न्यायाचार्यमहोपाध्याययशोविजयगणिनाऽलेखीति प्रसिद्धिः / अत्र प. संज्ञया सूचितमेतदादर्शपुस्तकं विक्रमीयाष्टादश-शताब्द्याः प्रारम्भे लिखितमनुमीयते / अन्यत्र सं. 1714 वर्षे लिखितं सूचितं तन्न यथोचितम् / प्राग्भागसम्पादकेन क. ख. ग. घ. संज्ञया सूचिताः प्रतयः प्रायेण एतदनुसारिण्यः / संवत् 1753 वर्षेऽस्मात् लिखिते एकत्र पुस्तक-प्रान्ते–'महोपाध्यायश्रीजशविजयगणिना कृतो ग्रन्थो नयचक्रः शास्त्रः। इति केनचित् लिखितमिति परम्परया भ्रान्तिरवतीर्णा यदयं ग्रन्थः श्रीयशोविजयेन कृतः, वास्तविकं त्वेतत् तेन नयचक्रस्यादर्शोऽन्येषां साहाय्येन पक्षण रचितस्तेषां नामान्यपि तत्प्रान्ते प्रकाशितांनि पठ्यन्ते "पूर्व पं. यशोविजयगणिना श्रीपत्तने वाचितं / आदर्शोऽयं रचितो राज्ये श्रीविजयदेवसूरीणाम् / संभूय यैरमीषामभिधानानि प्रकटयामि // 1 // विबुधाः श्रीनयविजया, गुरवो जयसोमपंडिता गुणिनः / विबुधाश्च लाभविजया, गणयोऽपि च कीर्तिरत्नाख्याः // 2 // तत्त्वविजयमुनयोऽपि च प्रयासमत्र म कुर्वते लिखने। सह रविविजयैर्विबुधैरलिखच्च यशोविजयविबुधः // 3 // ग्रन्थप्रयासमेनं दृष्ट्वा तुष्यन्ति सज्जना बाढम् / गुणमत्सरव्यवहिता दुर्जनदृग् वीक्षते नैनम् // 4 //