________________ 31 नयचकस्म क्षमया युक्तोऽतुल्या, समस्तशाखार्थविन्महाश्रमणः / गच्छाधिपगुणयोगाद्, गणाधिपत्यं चकाराय॑म् // 6 // तत्पादरजोऽवयवः, स्वरुपागम-शेमुषीक-बहुजाब्यः / तस्वार्थशास्त्र-टीकामिमां व्यधात् सिद्धसेनगणिः // 7 // अष्टादश सहस्राणि, द्वे शते च तथा परे। अशीतिरधिका द्वाभ्याम् , टीकायाः श्लोकसङ्ग्रहः // 8 // " -तत्त्वार्थशास्त्र-टीका-प्रशस्तौ (दे. ला.) तत्र नयचक्रस्य टीकाकृत्त्वेन सिंहसूरेः स्पष्टं न संस्मरणम् / व्याख्याकारस्य समयो विशेषपरिचयो वाऽत्र नोपलभ्यते, तथापि तस्य बहुश्रुतताऽपि च न्यायागमादिशास्त्रनिष्णातता पाठकानां प्रतीता भविष्यत्येव नयचक्रस्यास्स प्रथमभागस्य विवरणविलोकनेनापि / विविधविषयकशास्त्रीयप्रमाणानां मत-मतान्तरीयप्रामाणिकानां नामानि, तदवतरणानि चात्र विस्तरेण प्रदर्शितानि इत्यतस्तस्य विशिष्टवाङ्मयावगाहकत्वं प्रकटं भवति, प्राचीनानां दुर्लभानां दार्शनिकादिग्रन्थानां नामान्यवतरणान्यपि चेतो ज्ञातुं शक्यन्ते / प्रस्तुतप्रथमभागनिर्दिष्टनामसूची वर्णादिक्रमेणाने प्रदर्श्यते / विरहाङ्कहरिभद्रसरेः शासवार्तासमुच्चयस्य यदवतरणमत्र (पृ.५१] अवलोक्यते, तत् तु वाक्यपदीयादवतारितं ज्ञायते; एवं व्याख्या सहितस्य सम्पूर्णस्यास्य शास्त्रस्यान्तर्गतानां गद्य-पद्यमयानामवतरणानां ग्रन्थकारा दिनानां च निरीक्षणं, तेषां सम्यक् सान-समयादिविचारणमावश्यकम् / तदनन्तरं व्याख्याकारस्य सिंहसूरेः समयो विचारयितुं शक्यः / mmmmmm