________________ नयचक्रस्य जमि कुलं आयत्तं, तं पुरिसं आयरेण रक्खाहि / ण हु तुंबंमि विणढे, अरया साहारगा होति // " ___इति / -आवश्यकसूत्र (नि. गा. 759) वृत्तौ उ०.......... एवं तुम्बकरणं सविकल्पद्वादशा[ र ]नयचक्रैकवाक्यानयनसाधनम् / तत्र विधिभङ्गाश्चत्वार आद्याः, उभयभङ्गा मध्यमाश्चत्वारः, नियमभनाश्चत्वारः पाश्चात्या यथासङ्ख्यं नित्यप्रतिज्ञाः 4, नित्यानित्यप्रतिज्ञाः 4, अनित्यप्रतिज्ञाश्च 4 / [1] विधिः, 2] विधेः विधिः, [3] विधेर्विधि-नियमौ, [4] विधेनियम इति प्रथमभनचतुष्टयम् / मध्यमं [5] विधि-नियमो, [6] विधि-नियमयोर्विधिः, [7] विधि-नियमयोर्विधि-नियमो, [8] विधि-नियमयोर्नियम इति / पाश्चात्यमपि [9] नियमः, [10] नियमस्य विधिः, [11] नियमस्य विधि-नियमौ, [12] नियमस्य नियम इत्येते द्वादशाप्यरनया एकप्रद्यो(घट्टे ? बन्धे )नान्योन्यापेक्षवृत्तयः सत्यार्थी इति सपिण्डरूपेण प्रतिज्ञा एतभानियतस्याद्वादलक्षणः शब्द इति स्यान्नित्यः, स्यान्नित्यानित्यः, स्यादनित्यः शब्द इति / " / ............. "तथोक्त-द्रव्यार्थ-पर्यायार्थान्यतरविकल्पैकान्तशास्त्रप्रवन्धो विघटितार्थ इत्येषोऽर्थो भावित एवातीतसमस्तनयचक्रशास्त्रणेत्येवमनेन समस्तेन ग्रन्थेनैतदभिहितम् "विधि-नियम-भङ्ग-वृत्ति-व्यतिरिक्तत्वादनर्थकवचोवत् / जैनादन्यच्छासनमनृतम्" "जैनमेव शासनं सत्यं विधि-नियम-भङ्ग-वृत्त्यात्मकत्वाद्,........."वृत्तिवचनमशेषभङ्गैकवाक्यतायामेव प्रतिभङ्गमपि वृत्तिरिति व्याख्यापनार्थम् / किमुक्तं भवति / स्याद्वादतुम्बप्रतिबद्धसर्वनयभङ्गात्मकैकैव वृत्तिः सत्या रत्नावलीवत् ; यथा प्रतिविशिष्टजाति-वर्ण-च्छाया-सार-शुद्धि-प्रभवार्थ-संस्थानादिगुणगणोपेतमणिगणसमूहात्मिकैव रत्नावलीत्युच्यते यथास्थानविन्यासरत्ना, न प्रत्येकम् तथा विध्यादिनयाराणामपि तुम्बप्रतिबद्धा वृत्तिवत् स्याद्वादप्रतिबद्धैकान्तनयवृत्तिरन्यथा वृत्त्यभाव एवेति च चक्रदृष्टान्तसाधर्म्यात् नयचक्रशास्त्र-यथार्थनामत्वादेव / ........... "सर्वनयात्मकैकवृत्ति-जैनसत्यत्वसाधनप्रवृत्त्यैवार्थापत्त्या शेषशासनासाधुत्वप्रतिपादनं कृतम् , तदसाधुत्वप्रतिपादनेन च जैनसत्यत्वप्रतिपादनं कृतं भवति / ......... "एवंविधस्याद्वादाधिगम्यानेकान्तात्मकवस्तुज्ञानरहितः पुमान् नासौ कस्यचिद् वस्तुनोऽवयवमात्रस्यापि तत्त्वतो ज्ञाता, एकदेशमात्रस्यैव परिगृहीतत्वात् / नित्यानित्याधनन्तधर्मा 1 यस्मिन् कुलमायत्तं, तं पुरुषमादरेण रक्षत / न खलु तुम्बे विनष्टे, भरकाः साधारका भवन्ति /