________________ प्रस्तावना mam नयचक्र-तुम्बम् / व्याख्यायां द्वादशारविभागानन्तरं द्वादशारान्तरं विचारितम् , प्रान्ते च तुम्बखरूपं निरूपितम्, सम्बन्धसंयोजनार्थ तत उद्धृत्य तत् किश्चिदत्र प्रदर्श्यते "द्वादशानामन्यतमादरादनन्तरस्योत्थानम्, तत्तदरदूषणार्थ क्रमः, तेन क्रमेण सम्बन्धेन सर्वकुमतपक्षाणां मिथ्यादृष्टिप्रणीतशास्त्राणां व्यवस्थायाश्चेष्टेनार्थ सर्वमिदं नवचक्रं शास्त्रं क्रमते / सवैक्यभावापादितस्याद्वादानपेक्षसर्वनयमिथ्यादृष्टित्वात् / तत्र तत्र च तत्तद्दौर्विहितास्य प्रतिपादितत्वात् / परस्परविहितपक्षाणां क्रमेणोक्तार्थानुसारेण सर्वेषामन्योन्यदूषणत्वात् / [एवमेव इत्यादि] एवं चक्रत्वा[दस्य शास्त्रस्य नयादीनां चक्रं नयचक्रं नयसमूह इत्यन्वर्थसंज्ञा स्यात्, नयानां स्व--पर-मत-साधन-दूषण-समर्थानां समूहत्वात् / नयन्तेऽर्थान् प्रापयन्ति, नयन्ति गमयन्तीति नयाः, वस्तुनोऽनेकात्मकस्यान्यतमैकात्मकैकान्तपरिग्रहात्मका नया इति / तेषां चक्रमेवं तावदस्मादन्त्याच्छून्यवादनयात् सर्वनयोत्थानं न विरुध्यते / यथा चास्मादेवं सर्वेभ्योऽपि यथैव तस्मान्नयादुत्थानं सर्वनयानामन्त्यादविरुद्धम्; तथा सर्वेभ्योऽपि सर्वस्मादेकैकस्मादपि नयात् सर्वनयानामुस्थानमविरुद्धमेव, सर्वस्य सर्वेण सह विरोधित्वे सति विवादसद्भावात् / " [एषाम् इत्यादि] एषामशेषनयानां किं निबन्धनम् / इति चेदुच्यतेएषामाशेष]शासनाराणाम्-अशेषशासनान्येव जैमिनीयोपनिषदादीनि नया अरसंस्थानीयानि, स्याद्वादतुम्बस्य नयचक्रस्य तेषामशेषशासननयाराणां च भगवदर्हद्वचनमुपनिबन्धनं जिववचन-महासमुद्रस्यैव तरक्का एते / तथा च तत्र तत्र भावितं यथाऽऽचार्यसिद्धसेनबाह- . "मई मिच्छादसणसमूहमइयस्स अमतसाद(र)स्स / ..... जिणक्यणस्स भगवतो, संविग्ग-सुहाभिगम्मस्स // " इति . ... . [सम्मति० कां. 3, गा. 69] "........... स्वतत्त्वमनेकान्तात्मकं विदधतो जिनवचनस्यानुगमात् द्वादशामामराणामशेषशासनसंग्राहिणामित्यं तुम्बक्रिया स्याद्वाद-नाभिकरणं तत्प्रतिबद्ध-सर्वारावखानाद्, अतोऽन्यथा विशरणात् / यथोक्तम् wwwwm भद्रं मिथ्यादर्शनसमूहमयस्य, अमृतस्वाद(सार)स्य / बिनपचनस भगवतः, संबिम-सुधाऽभिगम्यस्य //