________________ 28 नयचक्रस्य प्रतिपादनं चात्यन्तखेदायेति मत्वा तत्तखेदखिन्नान् विस्तरग्रन्थमीरून् सोपाभिवाग्छिनः शिक्ष(प्य)कजनाननुग्रहीतुं 'कथं नामाल्पीयसा कालेन नयचक्रमधीयेरन् इमे सम्यग्दृष्टयः' इत्यनयाऽनुकम्पया संक्षिप्तग्रन्थं बह्वर्थमिदं नयचक्रशास्त्रं श्रीमत्-श्वेतपट-मल्लवादिक्षमाश्रमणेन विहितं 'स्वमीति' स्वपराक्रमविजिताशेषप्रवादिविजिगीषुचक्रविजयिना सकलभरतविज(प)यवासिनृपतिविजिगीषुचक्रविजयिनेव भरतचक्रवर्तिना देवतापरिगृहीताप्रतिहतचक्ररत्नेन स्वपुत्रपरम्पराऽनुयायि जगद्व्यापिविपुलविमलयशसा चक्ररत्नमिव तदिदं नयचक्ररत्नं चक्रवर्तिनामिव चक्ररत्नं पुत्र-पौत्रादिनृपतीनां विहितं कृतम् / किमर्थमिति चेदुच्यते-चक्रवर्तिनामिव चक्रवर्तित्वविधये वादिनां जैनानां जिनशासनप्रभावनाऽभ्युद्यतानां वादिचक्रवर्तित्वविधये वादिचक्रवर्तित्वं विधेयादित्येतमर्थमित्येतस्य नयचक्रशाखस्य विधाने प्रयोजनमभिहितम् / तदेतदेवं द्वादशारनयचक्रं सिद्धं प्रतिष्ठितमव्याहतं चक्रवर्तिचक्ररत्नवदेवान्याप्रधृष्याचिन्त्यशक्ति-पराभिभवन-प्रभुशक्तियुक्तं च सिद्धम् / सिद्धनामग्रहणं च मजलं कल्याणं शिष्य-प्रशिष्य-परम्परया प्रतिष्ठातुमर्हति / प्रतिष्ठितसिद्ध-विजयावहं जगन्मूर्धस्वसिद्धवत् प्रतिष्ठितं यशस्करमिति / " [21] प्रन्थप्रमाणादिनिर्देशकोऽयमुल्लेखः पठ्यते प. प्रतिप्रान्ते "इति श्रीमल्लवादिक्षमाश्रमणपादकृतनयचक्रस्य तुंबं समाप्तमिति / भद्रं / ग्रंथमानसंख्या 18000 // " [22] ईदृश उल्लेख उपलभ्यते भ. प्रति-प्रान्ते "इति श्रीमन्मल्लवादिक्षमाश्रव(म)णपादकृतनयचक्रस्य तुंबं समाप्तं / ग्रंथानं 18000 शुभं भवतु // " नयचक्रवालापरनाम [23] बृहट्टिप्पनिकासंज्ञिकायां प्राचीनग्रन्थसूच्यां [जैनसाहित्यसंशोधके मा. 1, अ. 2, 360] इत्थं समसूचि "नयचक्रवालवृत्तिर्मल्लवादीय-द्वादशारनय चक्रतुंब-सूत्र-व्याख्यारूपा ससूत्रा 18000 / " Animwww www . mewww