________________ Pmwww [17] . . विक्रमीयसप्तदशशताब्याः प्रान्ते विद्यमानो नयचक्रस्यादर्शकारको न्यायाचार्यो यशोविजयोऽप्युल्लिखति सत्यम्"हहाथै कोटिशो भनाः, निर्दिष्टा मल्लवादिना / मूलसम्मतिटीकायामिदं दिङ्मात्रदर्शनम् // " -अष्टसहरूयाम् [18] .. मलवाद्याचार्यकृतं धर्मोत्तर-टिप्पनकं बौद्धग्रन्थन्यायबिन्दुटीकायाः टिप्पनमुपलम्पते तच सं. 1206 वर्षे, तथा सं. 1231 वर्षे लिखिते ताडपत्रीये पुस्तके जेसलमेरदुर्गभाण्डागारीयसूचिपत्रे(पृ. 1, 14, अप्रसिद्ध० पृ. 29), तथा पत्तनभाण्डागारीयसूचिपत्रे (पृ. 375) चास्मामिर्निदर्शितम् / / न्यायविन्दुटीकायाः कर्तबौद्धाचार्यधर्मोत्तरस्य समयो वैक्रमसप्तमशतक. आधुनिकैरनुमीयते, तथा च सत्यं तदा तट्टीकायाः टिप्पनकर्तुमल्लवादिनः समयोऽपि तदनन्तरं सम्भावयितुमुचितः। [19] दि. कुन्दकुन्दाचार्य-देवसेन-माइल्लधवलादिभिस्तथाऽर्वाचीनपं. देवचन्द्रादिनाममिर्नयचक्र( आलापपद्धति )नानोपलभ्यन्ते कतिचन प्रा. सं. संक्षिप्तग्रन्थास्ते प्रायेण मल्लवादिनो नयचक्रस्य सार-समुद्धाररूपा ज्ञायन्ते / एवं चान्यैरपि कृता ये नयकर्णिकानयतस्व-नयप्रकाश-(प्रकाशिका)-नयप्रदीप-नयरहस्य-नयवाद-नयविचारनयविवरण- नयसंवाद - नयसप्तक-नयस्वरूप-नयामृततरङ्गिणी - नयालोक-नयोपदेशादयो ग्रन्था. उपलभ्यन्ते, ते प्रायेण प्रस्तुतादाधारभूतात् नयचक्रात् स्थानाङ्गसूत्र-वृत्तिविशेषावश्यकभाष्य-तत्त्वार्थशास्त्रविवरण-सम्मतिविवरणादेश्च प्रादुर्भूता ज्ञायन्ते। [20] - नयचक्रस्यास्य शास्त्रस्य प्रयोजनं कर्तुर्नामादिविषये चेत्थं समसूचि न्यायागमानुसारिण्या व्याख्याया उपसंहारे "अधुना तु शास्त्र-प्रयोजनमुच्यते___ “सत्स्वपि पूर्वाचार्यविरचितेषु सन्मति–नयावतारादिषु नयशास्त्रेष्वर्हत्प्रणीतनैगमादिप्रत्येकशतसङ्ख्यप्रभेदात्मकसप्तनयशतारनयचक्राध्ययनानुसारिषु, तस्मिंश्चार्थे(मैं) सप्सनयनतारचक्राध्ययने च सत्यपि द्वादशारनयचक्रोद्धा(द्ध)रणं दुःषमाकाल-दोष-बलप्रतिदिनप्रक्षीयमाणमेवायुर्बलोत्साह-श्रद्धा-संवेग-श्रवण-सा(स)धारणादि-शक्तीनां भव्यसस्थानां श्रवणमेव तावद् दुर्लभम् , श्रुत्वाऽपि तत्त्वावबोधः, बुवा तत्त्वमन्यस्य व्यवहारकाले परप्रत्यायनं प्रत्यादरो दुर्लभः, सत्यप्यादरे ग्रन्थार्थसंस्मरणं, तदुग्राहणम् , उग्राहितार्थ