________________ 26 नयचक्रस "पूर्वविद्भिः सकलनयसंग्राहीणि सप्तनयशतानि पिहितानि, बत्प्रतिबद्धं सतातारं नयचक्राध्ययनमासीत् ; तत्संग्राहिणः पुनर्वादश विध्यादयो, यत्प्रतिपादकमिदानीमपि नयचक्रमास्ते / " -उत्तराध्ययनसूत्र-बृहवृत्तौ दि. ला. पृ. 68] [13] विक्रमीयद्वादशशताब्द्या उत्तरार्धे विद्यमानो गूर्जरेश्वरसिद्धराजजयसिंहसन्मानितो मलधारी हेमचन्द्रसूरिः समस्मार्षीदित्थम् "पूर्वविद्भिः सकलनयसङ्ग्राहीणि सप्तनयशतान्युक्तानि, यत्प्रतिपादकं सप्तशतारं नयचक्राध्ययनमासीत् / उक्तं च-'एकेको य सयविहो, सत्तनयसया हवंति एमेव / '[ आवश्यकनियुक्तिः गा. 759] सप्तानां च नयशतानां संग्राहकाः पुनरपि विध्यादयो द्वादश नयाः; यत्प्ररूपकमिदानीमपि द्वादशारं नयचक्रमस्ति / " -अनुयोगद्वारसूत्र-वृत्त [पृ. 267] : .. ... [14] वि. सं. 1207 वर्षे श्रीचन्द्रसेनसूरिः संस्मृतवान् इत्थम्“आह च वादिमुख्यः ", "उक्तं च मल्लवादिना "विधि-नियम-भङ्ग-वृत्ति-व्यतिरिक्तत्वादनर्थकवचोवत् / जैनादन्यच्छासनमनृतं भवतीति वैधर्म्यम् // " , एतत्कारिका-विशेषभावार्थः स्वस्थानादवसेयः / " -उत्पादादिसिद्धिप्रकरणे (पृ. 125, 222) . [15] . विक्रमीयत्रयोदशशताब्याः पूर्वार्धे विद्यमानः कुमारपालभूपालसमकालीनः सुप्रसिद्धो व्याख्याकारः श्रीमलयगिरिः- ... ___ “यदाहुः श्रीमल्लवादिन:-'न विषयग्रहणपरिणामाद् ऋतेऽपरः संवेदने विषयप्रतिभासो युक्तो युक्त्ययोगाद्' इति"। -धर्मसङ्ग्रहणि-वृत्तौ [गा. 712 व्या., दे. ला. पृ. 260] .. बृहटिप्पनिकायां प्राचीनग्रन्थसूच्यां (जैनसाहित्यसंशोधक-परिशिष्टे. भा. 1, अं. 2 पृ. 10,358) सूचितम्-“सम्मतिसूत्रं सिद्धसेनदिवाकरकृतम् गा. 100 (1) सम्मतिवृत्तिर्मल्लवादिकृता 700 / " .