________________ भबजायः लोपज्ञवाल्मायाम् - “उक्तं च पादिमुख्येन बीमल्लवादिना सम्मतौ" इत्यादिना (गा. प्रा. अं..सं. 1, पृ. 58, पृ. 116) विक्रमीबैकादशशताब्यां विद्यमानो राजगच्छीयाभयदेवसूरिः स्मरति स्मेत्थं सन्मतितर्क(का. 2, गा.१०)-व्याख्यायाम्___"अत्र च जिनभद्रगणिक्षमाश्रमणपूज्यानामयुगपद्भाव्युपयोगद्वयमभिमतम् , मल्लवादिनस्तु 'युगपद्भावि तद् द्वयम्' इति।" . [10] वि. सं. 1080 वर्षे बावालिपुरे हरिभद्रीयाष्टकवृत्तिकारेण श्रीजिनेश्वरसूरिणा निजप्रमालक्ष्मी प्रमाणलक्षण) वार्तिक(को. ४०१)-वृत्तौ मल्लवादिनो नयचक्रस्य स्मरणमकारीत्थम् - "अत एव. श्रीहरिभद्रसूरिपादैः, श्रीमदभयदेवपादैश्च परपक्ष-निरासे तैर्यतितमनेकान्तजयपताकायाम् , तथा सम्मति-टीकायामिति। अत एव श्रीमन्महामल्लवादिपादैरपि नयचक्र एवादरो विहित इति न तैरपि प्रमाणलक्षणमास्यातं परपक्षनिर्मथनसमर्थैरपि; परपक्षनिरासादपि स्वपक्षस्य पारिशेष्यात् सिद्धिरिति / " . -प्रमालक्ष्म (पृ. 89 म. भ.) . [11] विक्रमीयैकादशशताब्दीभवेन पूर्णतल्लंगच्छीयेन शान्त्याचार्येण विरचितायां न्यायावतारवार्तिकवृत्तावपि मल्लवादिनः संस्मरणमकारि यथा"सिद्धः सिद्धसेनस्य, विरुद्धो मल्लवादिनः / द्वेधा समन्तभद्रस्य, हेतुरेकान्तसाधने // " "एवं सप्तनयाम्बुधेर्जिनमताद् बाघागमा येऽभवन्, . स्थित्युत्पाद-विनाश-वस्तुविरहात् तान् सत्यतायाः क्षिपन् / बौद्धोद्धाधविबुद्धतीर्थिकमतप्रादुर्भवविक्रमो, मल्लो मल्लमिवान्यवादमजयच्छ्रीमल्लवादी विभुः // " -पत्तनस्थप्राच्यजैनभाण्डागारीयग्रन्थसूच्याम् [भा. 1, पृ. 42,86] [12] . . . विक्रमयिकादशशताब्द्यां विद्यमानो वादिवेतालविरुदविख्यातः थारापद्धगच्छीयः श्रीशान्तिसूरिः समार नयचक्रम्- गूजरात विद्यापीठ, अमदावाद' स्थानात् प्रकाशिते चतुर्थे विभागे [पृ. 108] न.च. प्रस्तावना 4