________________ प्रस्तावना [24] वि. सं. 1351--90 वर्षेषु विद्यमानेन श्रीजिनप्रमसूरिणा रचिते सिद्धान्तागमस्तवे (जिनागमानां सं. स्तवने) नयचक्रवालसंज्ञयाऽस्य ग्रन्थस्य स्मरणमकारि "वन्दे विशेषणवतीं, सम्मति-नयचक्रवाल-तत्त्वार्थान् / ज्योतिष्करण्ड-सिद्धप्राभृत-चसुदेवहिण्डींश्च // " __-नि. सा. काव्यमालायाम् (सप्तमगुच्छके पृ.९४, श्लो. 42) [25] ___ एवं विक्रमीयचतुर्दशशताब्याः प्रान्ते, पञ्चदशशताब्याश्च प्रारम्भे विद्यमानेन मलधारिराजशेखरसूरिणा रचिते षड्दर्शनसमुच्चयेऽपि "ख्याताः प्रमाणमीमांसा, प्रमाणोक्तिसमुच्चयः / नयचक्रवालतर्कः, स्याद्वादकलिका तथा // प्रमेयपद्ममार्तण्डस्तत्त्वार्थः सर्वसाधनः / ..... धर्मसमहणीत्यादि-तौघा जिनशासने // " -य. वि. अं. (पृ. 2, श्लो. 18-19) [26] - 'विक्रमीयपञ्चदशशताब्द्या उत्तरार्धे विद्यमानो गुणरत्नसूरिरपि नयचक्रवालनाम निरदिशत् "श्वेताम्बराणां सम्मतिः, नयचक्रवालः, स्याद्वादरत्नाकरः, रत्नाकरावतारिका, तस्वार्थः, प्रमाणवार्तिकम् ........इत्येवमादयोऽनेकैः तर्कग्रन्थाः / " -हरिभद्रीयषड्दर्शनसमुच्चयस्य वृत्तौ. [प. 107] . नयचक्र-विभागाः। द्वादशारमयस्य नयचक्रस्य प्रान्ते तुम्बस्वरूपविचारणात् लेखकैस्तथा तुम्बप्रसिद्धिः कृता ज्ञायते / पूर्वप्रदर्शितकथा-चरिताद्यनुसारेण प्राचीनका कारिकाss8वाऽस्य ग्रन्थस्याधारभूता, तत्कारिकांप्रारम्भपदद्वयेनात्र विभाविता भङ्गा द्वादशाराः / मल्लवादिप्रणीतं मूलमितः पृथग् न प्राप्यते / सिंहशूरेण सिंहमूरिणा विरचितायां न्यायागमानुसारिण्यां व्याख्यायां तत् खण्ड-खण्डप्रतीकरूपेणात्रान्तर्भावितम् , यथाशक्यं बृहदक्षरैस्तत् पृथक्कृत्य तत्र तत्रास्माभिः प्रदर्शितम् / * नयचक्रस्य संक्षिप्ता विषय-सूची पृथगत्र प्रदर्शिता / अस्य टीकायाम् अरसमाप्तौ ईशा उल्लेखा उपलभ्यन्ते--