________________ जगत्कर्तृकेश्वरविचारः] न्यायागमानुसारिण्यलङ्कृतम् / 307 काराणां च तत्साध्यानां च सिद्धयोऽसिद्धयश्च नाना स्युरेव, न न स्युः। किं कारणम् ? उत्कर्षपरम्पराया बहुप्रभेदाया आ(अ)प्यामुक्तेः पुरुषस्यैवाव्यतिरिक्तभिन्नकारणत्वात् / स एवाव्यतिरिक्तो भिन्नश्च कारणं, तस्यैव सर्वप्रभेदात्मकत्वाद् भिन्नत्वम् , तेषां च कर्म नोकर्म]बाह्यरूपादिभेदपुद्गलानां पुरुषोपयोगात्मकत्वादव्यतिरिक्तत्वं तसात् पुरुषकारनानात्वम्, तत्साध्यसिद्ध्यसिद्धिनानात्वानि च स्युरेव, स चैक एव कारणं स्यादेव / को दृष्टान्तः ? अहिभोगविस्तरण-कुञ्चनवत् / यथाऽहिः स्फु(स्फ)टाऽऽटोप-कुण्डलीकरणाद्ययुगपदवस्थायिधमै रूपादिभिर्युगपदवस्थायिभिश्च भिन्नोऽप्यव्यतिरिक्ताभिन्नाहित्वसत्यस्तदव्यतिरिक्तभिन्नकारणत्वात् प्रवर्तयिता / तथा पाण्यादिसङ्घातसहवर्ती पुरुष उपयोगात्मा गत्याद्युत्कर्षार्थी तेषु युगप[दयुगप]द्भावेषु पुरुष एव सत्य इति / तथाऽनतिरेकातिरेकात् कर्मापि प्रवर्तयित् यथा पुरुषः पुद्गलात्मककर्मधर्मप्रभेदभिन्नोऽप्यव्यतिरिक्तः प्रवर्तयिता, तथा कर्मापि तदनतिरिक्तातिरिक्तकारणत्वात् प्रवर्तयित् / किं च चेतनाचेतनपरमार्थत्वाच पुरुषस्यैवेष्टानिष्टविधिं प्रति व्यापारः, स एव हि पुरुषश्चेतनोऽचेतनश्च / कुतः 1 इष्टानिष्टविधि प्रति व्याप्रियमाणत्वात्, उत्कर्षापकर्षाविष्टानिष्टौ तयोर्विधिः तत्प्राप्युपायः प्रमादाप्रमादौ तौ च दृश्यते / तस्मादयं पुरुषश्चेतनोऽचेतनश्च प्रमादाप्रमादयोरिष्टानिष्टविध्योव्याप्रियमाणत्वादतोऽचेतनकर्मानुभावोपलम्भात् चेतनपुरुषानुभावोपलम्भाचासौ(चेति)तद्वयपरमार्थः / तस्साच्च कमोपि प्रवर्तयित् / अथैवं नेष्यते त्वया यदि च पुरुषश्चेतनशक्तिरेव प्रोच्यते(वेष्यते) ततोऽसौ भवेत् पशुवन्मनुष्यत्वेनापि गम्यागम्य-भक्ष्याभक्ष्याद्यविशेषज्ञो यथा पशुर्भवत्यल्पचेतनस्तथा मनुष्यत्वेऽपि भवेत् / व्यक्तवर्ण-पद-वाक्यादर्थप्रत्यायनसमर्थशब्दोच्चारणादिशक्तिश्च मनुष्यस्तद्वत् पशुरपि भवेत् / कृम्यादिवन्मनुष्योऽतिजडः स्यात् , मनुष्यवत् कृमिरपि पण्डितः स्यादित्यादि, तस्मात् कर्मापि चेतनं, पुरुषोऽप्यचेतनः, तच्चोभयमविभक्तमिति ग्राह्यम् / एवं च कृत्वा तस्यैव च तूदितवदविभक्तव्यात्मकतायां चेतनाचेतनैकात्मतायां सत्यां द्विविधः प्रवृत्तिप्रबन्धः फलपरिणामप्रबन्धः प्राग्भवीयकमोख्यपुरुषकारस्य साध्योऽसाध्यश्च तत्सञ्चयहेतुभूतोपादानकाल-परिणामद्वैविध्यात् / तद् दर्शयति- तीव्र-मन्दादिहेतूपसेवनसञ्चितत्वादिति / तीव्रण योगपरिणामेन सश्चितत्वादिति / तीत्रेण योगपरिणामेन सश्चितं कर्म तीव्रानुभावस्थिति-प्रदेशं बद्ध-स्पृष्ट-निकाचितं सुख-दुःखफलमुपक्रमितुमशक्यत्वादसाध्यमवश्यं विपच्यते / मन्देन तु सश्चितं मन्दानुभावादिशक्यत्वादुपक्रम्यं साध्यासाध्यव्याधिवत् / यथा व्याधिवरातिसारादिनिदानमन्द-तीव्रत्वाभ्यां साध्योऽसाध्यश्च भवति, तथा कर्माख्य-पुरुषकारप्रवृत्तिप्रबन्धः साध्यासाध्यखभावव्याख्यानं च /