________________ नयचक्रम्। [विधिनियमारः कर्मणो ज्ञानावरणीयादेरष्टविधस्यापि / स च तदुभ(द)यप्रवृत्तितोऽप्रवृत्तितोऽपृथग्भूतोऽव्यतिरिक्तो भावः स्वतत्त्वमात्मनः तदव्यतिरिक्तरूपश्चात्मा, तस्मादात्मस्वतत्वज्ञानावरणाद्युदयप्रवृत्त्यव्यतिरिक्तरूपत्वाचात्मा पुद्गलात्मतत्त्व एव तादात्म्यप्रतिपत्तेः, रूपाद्यात्मकपरमाण्वादि[वदित्यर्थः। अत्राह- नन्वेवमित्यादि, यावत कुतोऽस्य रूपाद्यात्म कातेति / ननु भोस्त्वदुक्तेन विधिना एतेनैव पुद्गल एवात्मा प्राप्तः। तस्योपयोगात्मनः पुद्गलत्वात् / योऽयं पुद्गलोपयोगो रूपं रस इत्यादि, ज्ञानात्मनः स चात्मोपयोग एव उपयोगव्यतिरिक्त[म्य] रूपादेरभावात् , उपयोगस्य रूपाद्यात्मकत्वादुपयोगरूपत्वाच रूपादीनाम् / तस्मात् कुतोऽस्यात्मनो रूपाद्यात्मकतेति प्रस्तुतस्योपयोगस्य मत्यादेः पुद्गलात्मत्वमुपरुणद्धयेष विचार इति / अत्रोच्यते- एतन्नोपयोगात्मकत्वादेव रूपादीनामप्युक्तवत् / नैष दो]षो रूपाद्यात्मकताऽऽत्मनः,रूपादीनां चोपयोगात्मकता। यस्मादुपयोगात्मकत्वं रूपादीनामप्यनन्तरमेवोक्तम् / तस्माद् रूपादीनामप्युपयोगात्मकत्वादुक्तवत् पुद्गलोऽप्यात्मा, आत्माऽपि पुद्गल एवेति रूपाद्यात्मकत्वमात्मनो न दोषाय / __ अनेन सर्वमपीत्यादि, यावदितरेतरात्मकत्वात् / एवं च कृत्वा पुरुषस्य रूपादिमत्पुद्गलात्मकत्वात् पुद्गलस्याप्युपयोगात्मकपुरुषात्मकत्वात् तदुच्यतेकर्मैव कारणं, पुरुषकार एव कारणमित्यवधारितमुभयमप्येकान्तमसम्बद्धं बोद्धव्यमिति उभयोरपि पक्षयोः सह दोषोक्तिरेषा / इदानीं प्रत्येकप्रत्युक्तिभावनादिक् / तुशब्दो विशेषणार्थः। युगपत्प्रत्युक्तिदिक्तः प्रत्येकप्रत्युक्तिदिक् विशिष्यते / कर्मकान्तवादप्रत्युक्तिदिक् तावत् / प्रवर्तयित्त्वात् पुरुषश्च कारणमुत्कर्षार्थी चशब्दात् कर्म चेत्येकान्तप्रतिषेधस्य वक्ष्यमाणत्वात् / उत्कर्षमर्थयतीत्युत्कर्षार्थी, उत्कर्ष एवार्थः सोऽस्सास्तीति वा 'अर्थाच्चासनिहिते' [पा. वा. 5 / 2 / 135] इति इनिः / स चोत्कर्षों बाह्यो धन-धान्य-मित्रभूम्यादिसम्पत् / आन्तरस्त्वारोग्य-ज्ञानादिसम्पत् / कृतार्थस्य तदर्थारम्भोपरमात् असन्निहितार्थोऽर्थीति / कस्मात् पुरुषश्च कारणमिति चेत् ? उच्यते- तस्यैवोक्तवत् सर्वत्वात् / व्रीहिणैव व्रीहिः क्रियत इत्यादिन्यायोक्तवदसावेव पुरुषः प्राणादिमांश्चेतनः, कर्मापि / अपिशब्दानोकर्मापि प्राणापान-भाषा-मनोद्रव्यादिपुद्गल आध्यात्मिको बाह्योऽपि रूपादिपुद्गलश्चेतनो यस्मात् तस्मात् स एव प्रवर्तयिता तस्यैवास्मिन् पक्षे कर्मादि सर्वसर्वत्वात् किं तदन्यत् कर्मेति तस्यैव कर्मताऽपि, अपिशब्दात् पुरुषताऽपि पुद्गलताऽपि / तस्मादेव यदुक्तं 'प्रधान-मध्यमाधमाः पुरुषकारास्तेषां च सिद्धयोऽसिद्धयश्च प्रधान-मध्यमाधमा नाना न स्युः' इति तदयुक्तमुक्तम् / पुरुष