________________ 308 नयचक्रम् / [विधिनियमारः चलनीयोऽविचल्यश्च बद्धाबद्धमूलत्वाद् वृक्षहट्टवत् , यथासङ्ख्यं साध्यश्चलयितव्यः। इतरोऽविचल्यो न कम्पयितव्यः / प्रथमो बद्धमूलो वृक्षवत् / द्वितीयो हट्टवदबद्धमूलः दुःखविश्लेष्यः सुखविश्लेष्यश्चेत्यर्थः। निकाचितानिकाचितावयवत्वात / निकाचिताः कर्मप्रदेशाः तीव्रक्रोधाद्यशुभपरिणामेन / अनिकाचिता मन्दपरिणामेन / किमिव ? अयःशलाकाकलापवत् / यथा सूत्रमात्रोपनिबद्धा अयःशलाका एकशलाकाऽपकर्षमात्रप्रयासेन सर्वाः प्रच्यवन्ते / प्रतप्त-सम्पृक्तप्रहताः संघर्षणादृते न शक्याः पृथकर्तुम् , तथा कर्मविधिः। परिणमनमपि चेत्यादि, यावत् पुष्पतोकं दृढफलवत् / तस्यापि पूर्वकर्मणः तीव्रमन्दादिहेतूपसेवनसञ्चितस्य फलदानमिहत्यपुरुषकारस्य कृष्यध्ययन-सेवा-वाणिज्याद्यनुष्ठानस्य विषयो न च विषयः क्वचिदिति / अप्राप्त-प्राप्तविपरिणामावस्थत्वात् यथासङ्ख्यं स्वयमप्राप्तविपरिणामावस्थं पुरुषकारविपरिणम्यं पुरुषकारेण विपाच्यते, विषयत्वमानीयते, उदीरणाकरणेनोदीयते / प्राप्तविपरिणामावस्थं तु वैपर्ययान्न विषयीक्रियते, पुरुषकारेण न विपाच्यते नोदीयते, स्वयमेव विपक्वत्वात् / किमिव ? पुष्पतुक्-दृढ-फलवत् पुष्पतोकं दृढफलं च यथासङ्ख्यं दृष्टान्तौ / यथा दृढफलं वयमेव विपच्यमानं न पाच्यते पुरुषकारेण / पुष्पतोकं तु वृक्षायुर्वेदविधिना विपाच्यते / अथवा पुष्पतोकस्यैवोत्पन्नस्य दृढं फलमस्य भावीति दृढफलं तादृक्छक्त्यैवोत्पन्नमिति तस्यैव भवति, तच्छक्तिविरहितस्य न भवतीति तदेवाप्राप्तपाककालं कदलकाम्रादिफलं कोद्रव-पलालादिवेष्टितं निखातं वा पार्श्वधूमादिभिर्विपाच्यते, नेतरदवश्यंविनाशीति / अथवा अप्राप्तविपरिणामावस्थं पुष्पतोकमतिमृदुत्वादुपक्रमेणापि न पच्यते, पाचनायोग्यत्वात् ; कुथ्यति व्यलीयते वा / दृढफलं तु पाचनयोग्यं प्राप्तकालत्वात् पाच्यते / एवं च कृत्वा क्रियासहायश्च स फलं प्रयच्छत्येकश्च सहायीभूतायाः क्रियाया अपि तच्छक्तिमात्रत्वात् / क्रियासहायश्च पुरुषकारस्य फलप्रदान(ने) सापेक्षानपेक्षशक्तित्वात् भारोत्पाटवत् / यथा भारमुत्पाटयन् कश्चित् पुरुषः स्वयमेवोत्पाटयति, कश्चित् पुनः सहायापेक्षः / एवं पुरुषकारोऽपि फलप्रदाने सहायां क्रियामपेक्षते कश्चित् , कश्चिन्नेति सोपक्रमस्य क्रियापेक्षा न निरुपक्रमस्य / तत्र सोपक्रमस्य कमोत्मात्मन इत्यादि यावत् तृणदाहवद् वेति / तस्यैव सहकीभूतस्य आत्मनश्चेतनाचेतनत्वेन पुरुषात्मनेत्यादिना सापेक्षानुदयोपशम-क्षयोपशम-क्षयान् अवस्थाविशेषान् दर्शयति सोदाहरणान् / एवमनयेत्यादि, यावदा(द् भाव)नीयमिति / एवं तावद् द्वयात्मकतयाऽऽत्म-कमैकान्तवादप्रत्युक्तिदिगियं प्रदर्शिता / अनयैव . दिशा तथै(ऽनय)व पुरुषकार इत्यापायोक्तन्यायेन तदेव वस्तु कर्मसंज्ञामात्रेण भावयित्वा