________________ सत्त्व-रजस्तमसा भेदाभेदविचारः] न्यायागमानुसारिण्यलङ्कृतम् / 255 गुरोरन्यदित्यादि सुबोधत्वान्न व्याख्येयम् / परस्परान्यत्वसाधनकदम्बकं यथाभाष्यलिखितमनुम(ग)न्तव्यम् / पुनश्चेत्यादि, एतस्मादन्यसाधनप्रपश्चात् सुखत्वात् , दुःखत्वात् , मोहत्वादित्यादयोऽप्यन्यत्वहेतवः स्युः, आदिग्रहणात् प्रसादादयोऽपीति / तत्प्रयोगदिगुपप्रदर्शनार्थमाह- शरीरेन्द्रियगत आत्मैकदेशस्तदेकदेशभूताभ्यां रजस्तमोभ्यामन्यः कार्यभूतस्य शरीरस्य कारणभूतानां चेन्द्रियाणाम(मा)ध्यात्मिकानामेकदेशस्तदात्मभूतत्वं गतस्तदात्मभूताभ्यां रजस्तमोभ्यामन्यः सुखत्वाल्लोष्टवत् / यथा लोष्टो भोग्यो हि पुरुषस्य भोक्तुरुपयोगार्थप्रवृत्तेः कपोतोन(न्न ? ड)यनार्थक्षेपणादानादिषु सुखं दृष्टम् / चलन-पीडनादौ दुःखं लोष्टो नु ? कपोतो नु ? इत्यादिसंशय-विपर्ययादिषु मोहः, तस्मात् सुखं दुःख-मोहाभ्यामन्यत् , लोष्टवत् , [लोष्ट इन लोष्टवत् ] / एवं दुःखं मोहादित्यतिदेशः / दुःखं शरीरेन्द्रियगतम् , तदात्मैकदेशभूताभ्यां सत्त्व-तमोभ्यामन्यत् , दुःखत्वात् , लोष्टवत् / मोहः सत्त्व-रजोभ्यामन्यो मोहत्वात् , लोष्टवत् इति / अत्र ब्रूमः- सर्वेऽप्येत इत्यादि / सर्वग्रहणात् लघुत्वादयो मोहत्वपर्यन्तास्त्वयोक्ता अन्यत्वहेतवः। अप्रसिद्धसाध्यधर्मसमन्वयव्यावृत्तयः / एते हेतवोऽसिद्धा 'एवावधारणे' इति वक्ष्यति / सिद्धत्वेऽप्यप्रसिद्धसाध्यधर्मसमन्वयाः पृथग्भूतसुखा[द्यात्मक-सत्त्वादि-लघ्वादि-तूल-लोष्टादिवस्त्वभावात् / सर्वस्य त्रैगुण्याव्यतिरेकाच्च / न चैषां विपक्षाद् व्यावृत्तिरस्ति तूल-लोष्टादेरेव विपक्षत्वेन व्यवस्थानात् / विविक्तैकसुखात्मकाद्धि वस्तुनोऽन्यद् विविक्तदुःखाद्यात्मकं स्याद् , विपक्षस्तु नास्ति, सर्वस्य (सात्) त्रिगुणैकात्मककत्वात् / न पुरुषोऽसत्त्वात् , तस्यापि सुखादन्यत्वादिति / ततश्च तूल-लोष्टादेपि विपक्षत्वात् / ततश्च लघुत्वादिहेतूनामव्या(प्या)वृत्तेरप्रसिद्धसाध्यधर्मव्यावृत्तयस्ते हेतव इति विरुद्धत्वं हेतुदोषः। साध्य-साधनोभयानन्वयो धर्मासिद्धिश्च साधर्म्यदृष्टान्तः / साध्याव्यावच्यादिदोषश्च वैधयंदृष्टान्त इति दर्शयति / / किं चान्यत्- स्वत एवानुमते(मान)निराकृतश्च(स्व)प्रत्यक्षीकरणाश्चैिते हेतव इति वर्तते / 'अस्ति प्रधानं भेदानामन्वयदर्शनात्' इति प्रक्रम्य सुख-दुःख-मोहान्विता अ(आ)ध्यात्मिका बाह्या[व] शब्दादयः कार्यात्मकास्त्रयाणामेककार्यभावात् / तदारब्धाश्चाकाश-वाय्वनलाम्भो-भूमयो भूताख्यास्तैर्यग्योन-मानुप-दैवानि शरीराणीन्द्रियाणि च तदा[द्या]नि त्रयाणामेककार्यभावात् सुखाद्यन्वितान्येव चन्दनशकलादिवदित्येवमाद्यनुमानसिद्धं त्रैगुण्यम् / 'अन्यत् सुखं दुःख-मोहाभ्यां लध्वेव च' इत्येवमादिपक्षं निराकरोति, तस्य स्वपक्षस्यानुमाननिराकृतस्यान्याविदितस्य सर्वलोका[प्रत्यक्षस्य सतः] प्रत्यक्षीकरणार्या एते हेतवः संवृत्ता इतीत्थमनुमानविरुद्ध प्रतिज्ञादोषोद्भा(द्भ)वनवक्रोक्तिरेषा /