________________ नयचक्रम् / [विध्युभयारः 'किं चान्यत्- 'अनवधृतेत्यादि, यावदतथातैव लघुत्वात्' इत्यादयो हेतवः किमवधारितार्थाः ? उतानवधारितार्थाः ? इति सम्प्रधार्यमेतत् / लघ्वेव सुखं, न गुरु, न चलं वा; तथाऽन्येषामपि चलत्वादीनां चलमेव, गुर्वेव, प्रवृत्तिशीलमेवेति तत्त्वानवधारित-लध्वादिधर्मतायां सत्यामितरात्मकमपीति लघु-चलगुर्वादिव्यात्मकत्र(त)यैव पक्षधर्मता सादेषाम् / तथा सतीत्यतथातैवानन्यतैवेत्यर्थः / इतिशब्द[स्य] हेत्वर्थत्वात् च्यात्मकै [क]त्वादित्यर्थः / / __ असजातीयेत्यादि, यावदस्मान् प्रति भवन्तमिति / अथावधारितार्था एते लध्वादयो हेतवः गुर्वाद्यसजातीयलक्षणव्यावृत्तार्थविषयास्ततस्तेषामसजातीयलक्षणव्यावृत्तार्थविषयताया विशेषहेतोः पक्षधर्मतैव मूलतस्तत्रास्मान् प्रति तावदपक्षधर्मत्वम् / तद्यथा- 'णिच्छयतो(ओ) सव्वलहु' इति गाथा / निष्कृष्यावधार्य चयतो ज्ञानतः परमार्थनयतो वा सर्वथा लघु सर्व वा लघु न विद्यते, तथा सर्वगुरु द्रव्यं परमाणु-द्विप्रदेशाद()संख्येयान्तानां केषाश्चिदनन्तप्रदेशानां च स्कन्धानां शेषद्रव्याणां चागुरुलघुत्वात् / ततः परमनन्तानन्तप्रदेशानां बादराणामापेक्षिकलघु-गुरुपरिणामित्वाद् व्यवहारनयेन तु युज्यते लघुत्वं गुरुत्वं चा(वा)ऽन्योऽन्यस्मात् लघुगुरुर्वेति / वातं रातीति वातरा, बदरप्रमाणा बादरा वा स्कन्धाः मू(स्थू)ला इत्यर्थः / 'ण इतरेसु' नेतरेषु प्रागुक्तपरमाण्वादिषु सूक्ष्मेष्वगुरुलघुत्वमेवेत्यर्थः / अत्यन्तगुरुतायामित्यादि / निरपेक्षकान्तगुरुतायामेतदेव पतेत् पतनक्रियमेव स्यान्न तिष्ठेन्नोवं गच्छेत् , गुरुत्वात् / दृष्टान्तो वक्ष्यमाणः।। स्यान्मतम्- पतेदेव गुरु, यदि प्रतिवन्धी न स्यात् , अस्ति तु संयोगः प्रतिबन्धी पतनस्य, फलस्येव वृन्तमित्यतो विशेषयामः- 'संयोगभावेऽपि पतनप्रतिबन्ध्यविषयगुरुत्वात्' इति [पतन] प्रतिबन्धिना यद् विषय न भवति गुरु, तत् पतेदेव, स चास्य नास्ति प्रतिबन्धी, त्वयैकान्तगुरुत्वाभ्युपगमात् / न तु (तन्तु)प्रतिन धानिया पातोपलवर / एकेन रन्तुना प्रतिबन्धिना सत्यपि संयोगभावे तदविषह्य गुरुत्वात् पत्त्येव, यथोपलस्तथैतत् पतेदव / गुरुत्वं (सुखं) लघुत्विशून्यगुरुत्वादिति / योगिनोऽपि चेत्यादि / योऽपि चास्त्य(स्य) योगी प्रतिबन्धकस्तस्यापि च योगिनः प्रतिबन्धिनो गुरुत्वात् तत्पतनोपचयहेतुत्वात् सुतरां पतनमेव स्यात् / पतेदेव तेनापि हि सह शिलाबद्धशिलावदिति पातहेतुत्वं द्रढयति / एवं तावदत्यन्तगुरुत्वे पतनमेव प्रसक्तम् / ___ अथ [वा] मा भूदेष दोष इत्यत्यन्तलघुत्वमिष्यते / ततोऽत्यन्तलघुतायां न कदाचिदपि पतनं स्यात् , पाताख्यो भाव एव न स्यात् / तस्योत्पत्तिकारणाभावात् , तच्च कारणं गुरुत्वं पतनस्य, तदभावात् , खपुष्पवत् /