________________ 254 नयचक्रम् / [विध्युभयारः भेदाश्चात्मा येषां तानि सत्वादीन्यपृथग्भूतसमवस्थानस्वरूपभेदात्मकानि तद्भावात् / क्षीरोदकवद् देश-कालाभेदेन सह भवनेऽपि सङ्गत्यैक्यावस्थानस्वरूपत्वविशेषणात् / क्वचित् कदाचित् पृथग् भवनाभावादित्युक्तं भवति / तत्स्वरूपभेदात्मकत्वं च वादि[प्रतिवादि]प्रसिद्धम् / दृष्टान्तो वरणादितमस्त्ववद् यथा वरणसदनापध्वंसन-बैभत्स्यादिगौरवाणां परस्परतो भिन्नानां छादन-स्तम्भन-विशरणारोचन-विषादाधोगमनधर्माणां भेदात्मकत्वे सत्यपि मोहात्मकतमःखारूप्यानतिक्रमेणैक्यमपृथग्भवन-समवस्थानस्वरूपभेदात्मकत्वात् तथाऽस्मादेव हेतोः सत्त्वादीन्येकमिति / अत्राह- अपृथग्भवन-समवस्थानेत्यादि, जात्यन्तरत्वसाधनानि यावद् गुरुरित्येता(त्युभा)भ्यामन्य इति / ननूतमन्वयवीत एव, अत्राह- कथं पुनरेतदुपलभ्यते सुख-[दुःख]-मोहा जात्यन्तराणीति ? अत्रोच्यते-सुखं लवप्रवृत्तिशीलं प्रकाशकं दृष्टम् , गुखाश्च करणप्रकाशास्तस्मात् प्रवृत्ति-नियमाभ्यामन्ये / तथा दुःखं चलमप्रकाशकं प्रवृत्तिशीलं दृष्टम् , दुःखाश्च करणप्रवृत्तयस्तस्मात् प्रकाश-नियमाभ्यामन्याः / तथा मोहो गुरुरप्रकाशको दृष्टः, मूढाश्च करणनियमास्तस्मात् प्रकाश-प्रवृत्तिभ्यामन्य इति / एतेनाध्यात्मिकानां [कार्य-कारणात्मकानां] इत्यादिनोत्तरेण ग्रन्थेन तैर्यग्योनादि-संसारगताध्यात्मिककाय-कारणात्मकभेदानां सुख-दुःख-मोहमयत्वातिदेशः कार्य-कारणात्मकत्वात् तेपामपीति / अस्य ग्रन्थस्यार्थव्याख्यानं साधनैरेव क्रियते- सत्त्व-रजस्तमांसि जात्यन्तराणि, लक्षणभेदात् / चेतनशरीरवत् , लक्षणभेदः सत्वं लघ्वप्रवृत्तिशीलं दृष्टमित्यादि तत्साधनैर्भाष्ये सुलिखितमिति न विवृण्महे / तथा रजस्तमसोरन्यत्वापादनसाधनान्यनुगन्तव्यानि यावद् गुरुरित्येता(त्युभा)भ्यामन्य इति / - आचार्य उत्तरमाह- ननु लक्षणभेदहेतुत्वमित्यादि, यावत्तमस्त्ववत्। लक्षणभेदहेतूनां लघुत्वादीनामप्यहेतुत्वमेतेनैव प्रत्युक्तत्वात् / कथम् ? लघुत्वप्रकाशाप्रवृत्तिशीलत्वान्यप्येकम् , अपृथग्भूतसमवस्थानस्वरूपलक्षणभेदात्मकत्वात् , [वरणा]दिभिन्नलक्षणमत(तम)स्त्ववत् / तथैव व्याख्येयम् , लक्षणशब्दाधिक्येन विग्रहस्त्व(स्तु तत्स्व)रूपमेव लक्षणं स एवा(व) भेदो यस्येति / तस्मादिति तस्मात् तादृक्स्वरूपलक्षणभेदात्मकत्वमप्यहेतुः / अतो नान्यत्वं सत्चादीनामिति / इतर आह-नापृथग्भूतेत्यादि हेत्वसिद्धिप्रतिपादनसाधनानि लोकप्रसिद्धदृष्टान्तानि यावत् प्रदीपादिव घट इति लोष्टदृष्टान्तो वक्ष्यते / सुख-दुःख-मोहै। पुरुषभोग्यैरन्योऽन्यतोऽन्यैरुपेत इत्यतिदेशसाधनोक्तिकाल उत्तरत्र ! अपृथग्भूतसमवस्थानस्वरूप[म]सिद्धम् / तत् कथमिति चेत् ? साधनैरेवोच्यते-सुखं मोहाद्