________________ सत्व-रजस्तमसा भेदाभेदविचारः] न्यायागमानुसारिण्यलवम् / 253 भावो व्यज्यते प्रवर्तते / तथा तमःसत्त्वेन रजःसत्त्वं प्रकाश्यते, व्यक्तिप्रवृत्तिनियतिः नियतिप्रवृत्तिपरिणत्या नियत्यैवेत्युक्तं भवति / तथा [तमःसत्वेन] तमःसत्वं प्रकाश्यते व्यक्तिनियतिपरिणत्या नियत्यैवेत्युक्तं भवतीति तदेव भावितम् / ___ एवमेव चेत्यादि / यथा सत्त्व-रजस्तमसां नवधा विकल्पा उक्ताः, तथा सत्त्वप्रकाशेन सत्त्वप्रकाशः प्रकाश्यत इति सत्त्वप्रकाशेन रजाप्रकाशस्तमःप्रकाशचेति त्रयः, रजःप्रकाशेन सत्त्वप्रकाशो रजःप्रकाशस्तमःप्रकाशश्चेति [त्रयः, तम:प्रकाशेन सत्त्वप्रकाशो रजःप्रकाशस्तमःप्रकाश इति त्रयो विकल्पाः। 'प्रकाश्यते, प्रवर्त्यते, नियम्यते' इत्यनेनैव ग्रन्थेन त्रयोऽप्यर्था ऐक्यमापादनीयाः प्रत्येकं नवस्वपि योज्या इत्यर्थः / एष दान्तिकोऽप्यर्थो व्याख्यातः, स इदानीं दृष्टान्तेन साधयेणोपसंह्रियते- सर्वाऽप्येषा मृद्-घटव्यक्तिशक्तिस्थूलतैव यथा प्रागुपवर्णिता कारणे कार्यस्य सत्वात् मृधनभिव्यक्त(क्ता)या घटव्यक्तिशक्तेः स्थूलतोर्ध्वग्रीवादिव्यक्तेन्द्रियग्राह्यता सैकैव, तथा सत्त्वप्रकाशादिप्रपञ्चा व्यक्तिरेकैव एकार्थविषया सत्वमिति वा, रज इति वा, तम इति वा, प्रधान इति वा यथेच्छसि, तथाऽस्तु / सर्वथाऽप्येकस्य कारणाख्यस्य वस्तुनः सूक्ष्मस्य [स]त: स्थूलतैव व्यक्तिरिति तद्विषया व्यावण्यत इति / इति विचारपरिसमाप्त्यर्थः / यत् प्रतिज्ञातं 'सत्त्वं प्रकाशात्मकयोश्चेद् रजस्तमसोः शब्दभावाय व्यवतिष्ठते / तत एकात्मकैककारणत्वमिति तत् सत्त्वम(साध्व)भ्यधामेति / तथा [त्वया] यदुच्यते रजः शब्दकार्यमित्यादिग्रन्थस्यापि समानदौष्टयापादनार्थोऽतिदेशः भाष्य एव सुलिखितातिदेशोपायत्वान्न वित्रियते / विशेषणविन्यासोपायश्च सुलिखित एव प्रकाशस्थाने प्रवृत्तिं कृत्वेत्यादि सर्वमनुगन्तव्यं यावद् वायुमिति / तथा तमः शब्दकार्यमित्यादि तथैवानुगन्तव्यं यावल्लम्बनपाषाणमिति / एवम[व]सायितप्रसङ्गः। इदानीं साधनमाह- अतस्त्रीण्यप्येकमित्यादि तमस्त्ववदिति। सत्त्वरजस्तमांसि त्रीण्यपि प्रकाश-प्रवृत्ति-नियमात्मकानि जात्यन्तराभिमतान्येकं वस्तुतः यस्सातत्रत्वाद् भिन्नमप्यभिन्नमिति पक्षार्थः। परमतापेक्षया त्रयाणामैक्यासिद्धेः साध्यं त्रीण्यपि च परस्परसिद्धानि धर्मित्वेनासाकं च वस्तुशक्तित्वभेदेनेतीत्थं साध्यतेऽन्यथा त्रीणि चैकं वे( चे )ति विरुद्धं स्यात् / अपृथग्भूतसमवस्थानस्वरूपभेदात्मकत्वात् भूतं भवनं भावो भूतिरिति भावे निष्ठाविधानात् / अपृथग्मषनमस्य सङ्गत्यैकीभावेनावस्थानस्य / तदिदमपृथग्भूतसमवस्थानं तदेव स्वरूपं १त्रित्वस्या-प। 2 °निति भ /