________________ 252 नयचक्रम् / [विध्युभयारः त्यादिनोपसंहरति- एकस्य वस्तुनः स्वतत्त्वभूतानां त]दभिधानप्रयोजनानां सत्त्व-रजस्तमसां तत्कार्याणां च प्रकाशन-प्रवृत्ति-नियमानाम[व्यतिरेकैक वृत्तिता / इति परिसमाप्त्यर्थः / एवं तावदेतया भावनयाऽऽपादितैक्यानां सवादीनां सत्त्व[स्वात्मत्वेनैव कर्तृ-कर्मत्ववृत्तिरुक्ता परस्वरूपापादनेन भेदमभ्युपगम्य / इदानीं फलाभेदान्नैव भेद इति [प्रति]पादयिष्यन्नाह- [सत्त्व]सत्त्वेनैव [सत्त्व]सत्त्वं प्रकाश्यते, त्रयाणामपि सत्त्वरूपत्वस्यापादितत्वात् / सत्व-सत्त्वं, रजः-सत्त्वं, तमः-सत्वमिति भिद्यते / तस्याभेदः फलाभेदा[दापाद्यतेऽधुना- यत् तत् सत्वं सत्वमेव भवति, नान्यद् भवति, रजस्तमो वा / तत् सत्त्वसत्त्वं तेन [सत्त्व सत्त्वेनैव प्रकाश्यते व्यज्यते तदेव सत्त्वस्यैव भवनं व्यज्यते स्फुटीक्रियते, पूर्ववत् कर्तृकर्मभावोऽवस्थावशात् , तद् दर्शयति- [व्यक्ति परिणामेन मृत्सत्त्वे यद् विद्यमानं सत्त्वसत्त्वं घटप्रकाशसत्त्वं तेनैव तद् व्यज्यते स्वपरिणामेन; सदेव हि सत्त्वेन परिणमति, नासत् / यथोक्तम्- 'अत्थित्तं अत्थित्ते परिणमति' इति / [भग० ] यदुक्तं भवति, व्यक्तीभवतीति तदुक्तं भवति / सत्त्वसत्त्वेन [सत्त्व]सत्त्वं प्रकाश्यत इति / सत्व-सत्वमिति च विशेषणं रजःसत्त्व-तमासचाभ्याम् / तयोरपि त्वन्मतप्रसिद्ध्या सत्यपि भेदेऽस्सदुक्तवदभेद एवेत्यभिन्नफलत्वादैक्यमापाद्यम् / किं कारणम् ? यस्मात् 'सतो हि भावः सत्त्वं' यस्मात् त(स)देव सद् भवति, तस्मात् तदेव सत्त्व[सत्त्वं]तत्त्वं तद्भावः परिणाम इत्यनान्तरं 'तभावः परिणामः' [तत्त्वार्थसूत्रे 5 / 41] इति वचनात् / तद्धि प्रवर्तमानं न किञ्चिदपेक्षत इति प्रवृत्ति-नियमानपेक्षेण सत्त्वसत्त्वेनेति / एवं रजःसत्त्वेन [सत्त्व] सत्त्वं प्रकाश्यत [एव] इति वर्तते / पूर्ववद् व्यक्तिरिति प्रकाशैकार्थ्यम् / किमुक्तं भवति? व्यक्तिप्रवृत्तिपरिणत्या प्रकाशनप्रवर्तनपरिणामेन / तयैव प्रवृत्त्यात्मिकया व्यक्त्यैवेत्युक्तं भवतीत्यैक्यं दर्शयति- एवं तमःसत्त्वेनेत्यादि / व्यक्तिनिय[म]परिणामेनेत्यक्षरविपर्यासमात्रेण भेदादर्थंक्यापादनं गतार्थम् , यावद् व्यक्त्यैवेत्युक्तं भवतीति / सत्त्वेनैव व्यक्त्यात्मना प्रवृत्तेन नियतेनावश्यं भवितव्यमन्यथा तत्स्वरूपादि(य)भावादित्युक्तत्वात् / एवमेव रजःसत्त्वेन सत्त्वसत्त्वं प्रकाश्यते, व्यक्तिः व्यक्तिप्रवृत्तिपरिणत्या प्रवृत्त्यैवेत्युक्तं भवति 'सतो हि भावः सत्त्वम् / तथा रजःसत्त्वेन रजःसत्त्वं प्रकाश्यते व्यक्तिप्रवृत्तिपरिणतिर्व्यक्तिप्रवृत्तिपरिणत्या प्रवृत्त्यैवेत्युक्तं भवतीति तथैव गमनीयम् / तथा रजःसत्त्वे[न तमःसत्त्वं] प्रकाश्यते, व्यक्तिनियतिपरिणतिः व्यक्तिप्रवृत्तिपरिणत्या प्रवृत्त्यैवेत्युक्तं भवतीति / तथा तमःसत्त्वेन [सत्त्व] सत्त्वं प्रकाश्यते, व्यक्तिनियतिपरिणत्या नियमेनैवेति 'नियतो हि 1 रुक्त्या परस्पर-प / 2 सत्त्वं तमः सत्त्वमिति भ /