________________ सत्त्व-रजस्तमो-नियामकत्वविचारः] न्यायागमानुसारिण्यलङ्कृतम् / 249 द्वयोः [प्रवृत्ति-नियमयोः] प्रागभूतत्वादेव कार्यात्मनोः, तथा रजसि प्रकाशनियमयोः, तमसि प्रकाश-प्रवृत्त्योः कार्यात्मनोरभूतत्वादन्यगुणकारण-कार्यात्मनामन्यत्रा[भिव्यक्तिः प्रवृत्ति-नियति-कार्याणामसतामुत्पत्तेर्व्यवस्थानवचनात् , प्रख्यापनवचनाच्चाभ्युपगतत्वात् / तस्माद् वैशेषि[क]कार्यवदसत्कार्यत्वम् / / . न केवलं वैशेषिकवदेव, कि तर्हि ? बौद्धवद् वा असत्कार्यत्वम् / वरं हि वैशेषिकासत्कार्यतुल्यत्वं तदसत्कार्यत्वस्य कारणैः सह कश्चित् कालं तिष्ठत इति तैरिष्टत्वादिदं बौद्धासत्कार्यत्वतुल्यमेव ते प्राप्तम् / कुतः ? तथाभूतवस्तुनिर्मूलोत्पत्तित्वात् / तेन प्रकारेण भूतं वस्तु शब्दो रूपमित्यादिना तथाभूतवस्तुनो निमूला उत्पत्तिस्तद्भावात् तथाभूतवस्तुनिमूलोत्पत्तित्वात् / किमर्थं पुनर्निमूलोत्पत्तित्वादिति सिद्धे तथाभूतवस्तुग्रहणम् ? दृष्टान्तद्वयेनार्थद्वयप्रदर्शनार्थम् / तद्यथाद्वितीयक्षणप(घ)टवत् / यथा क्षणः क्षणान्तरेऽनुत्पन्न एवोत्तरस्मिन् पूर्वो निरुध्यते, उत्तरश्च तदनन्तरमुत्पद्यते निमूलः। नामोन्नामौ तुलान्तरयोरिवेत्युक्तत्वात् / तत्सहचरितं च घटादिवस्तु पूर्वस्मिन् निरुद्धे पाश्चात्यस्य पाश्चात्यसो(स्यो)त्पादाभ्युपगमान्निर्मूलोत्पत्त्ये चेत् (वेति) पुरुषदृष्टान्तः। साध्यं चोभयं, तत्साधादिदमपि सत्त्वादि प्रकाशादि कार्य, शब्दादि सांख्य[मत]मिति योज्यम् / तसानिमूलोत्पत्तिः साधाद् बौद्धासत्कार्यवादतुल्यतेति / / __एवं प्रकाशाद्यसत्कार्यत्वे [सिद्धे] सर्वव्यक्तासत्कार्यत्वसाधन[म]सत्कार्याः शब्दादयः कारणत्वात् यद् यत् कारणं तत् तदसत्कार्य दृष्टम् , अन्यगुणात्मकसुखप्रवृत्त्यादिवत् / अन्यो गुणः सत्त्वाद् रजः, तस्यात्मा सुखं, तच स्वयं साम्यावस्थायामेकप्रकाशात्मकार्यमपि सजात्यन्तररजस्कार्य प्रवृत्त्यात्मकमारम्भावस्थायामिष्टम् / व्यात्मकशब्दाद्यात्मव्यवस्थानवचनात् / तथा नियमात्मकमपि आदिग्रहणादतः [सुखं सत्वगुणं प्रागसत्प्रवृत्तिनियमकार्य पश्चात् तत्कायं दृष्टं कारणं च तत्त(द्व)च्छब्दादयोऽसत्कार्याः कारणतां च बिभ्रतीति / एवमन्यगुणदुःखप्रकाशनियमवत् , अन्यगुणमोहप्रकाशप्रवृत्तिवदित्येकैकमेव दृष्टान्तं कृत्वा योज्यम् / एतस्यार्थस्य स्फुटीकरणार्थमाह- इतरानुपकृताविद्यमानप्रकाशादित्रयसुखादिकारणवदिति / इतरेण रजसा तमसा चानुपकृतौ प्रागसन्तौ [प्रवृत्ति-नियमौ / पश्चात् तदुपकारजनितौ सुखे कारणे दृष्टौ / आदिग्रहणादेवं दुःखे प्रकाश-नियमावितरानुपकृतौ प्रागसन्तौ] पश्चात् तदुपकारजौ / तथा मोहेऽपीति / यद्येवं नेष्यते ततः प्रत्येकमितरानुपकृतविद्यमानप्रकाशादित्रयस्खकायों वा सुखादयः कारणत्वात् शब्दादिवत् तन्त्वादिवद् वेति / खशब्दादेकस्यैव सत्त्वगुणस्य त्रयोऽपि प्रकाशादय आत्मीया एव कार्यास्तथेतरयोश्चेति पुरुषादिवाद एवैष न०च०३२