________________ 250 नयचक्रम् / [विध्युभयारः संज्ञामात्रविप्रतिपत्तेरिति / एवं तावदप्रकाशात्मकयो रजस्तमसोः शब्दात्मना व्यवतिष्ठमानेन तत्प्रख्यातिना सत्त्वेन ते [तदात्मप्रख्यापने] दोषा उक्ताः / यदि चैवं सत्कार्यवादस्योत्खातमूलत्वप्रसङ्गभयादसत्कार्यवादस्य [प्रतिष्ठितमूलत्वप्रसङ्गभयाच नेष्यतेऽयं विकल्पोऽप्रकाशात्मकयोरिति / ततः प्रकाशात्मकयोरित्यस्तु, तत्रापि च दोषं वक्तुकाम इदमाह___ अथ प्रकाशात्मकयोरित्यादि, यावन्नेष्यत इति गतार्थम् / ततो यथैवेत्यादि, दृष्टान्तमेव तावत् प्रक्रिया-प्रसिद्धमुपवर्णयति / कारणे कार्यस्य सत्त्वाद् घटेनैव घटः क्रियत इति / मृत्पिण्डघटेनोर्ध्वग्रीव-कुण्डलौष्ठ-पृथुकुक्षि-बुघ्नादिघटः क्रियते प्रकाश्यते, करोतेः प्रकाशार्थत्वात् ; यथा पृष्ठं कुरु, पादौ कुरुः तच्च करणं विमलीकरणं प्रकाशनमित्यर्थः / कारणे कार्यस्य सत एव प्रकाशनात् / सपेस्फटा[टो]पमुकुलत्ववत् दीर्घकुण्डलकीभाव[व]त् , तत्र यथा सर्पणैव सर्पः क्रियते, तथेहापि घटेनैव मृदा घटः पृथुकुक्ष्याद्याकाराः(रः) क्रियन्ते(ते), अत्यन्तभिन्नेनान्येनान्यस्याकारणात् / किं चान्यत् , तदात्मव्यक्तिप्रतिनियतखसाधनक्रमसमावेशात् घटात्मत्वस्य व्यक्तिः प्रागनुपलभ्यस्य पश्चादुपलब्धिः सा प्रतिनियतानामात्मीयानां कुलाल-दण्डादीनां तत्क्रमस्य च कालाख्यसाधनत्वात् पिण्ड-शिवकादिभावेषु यथावस्थं व्याप्रियमाणानां क्रमेण व्यापारादित्यर्थः / तद् दर्शयति-कारणघटेन कार्यघटोऽभिव्यज्यत इति / कथं व्यज्यते ? इति चेदुच्यते- तथोक्त(तथाभूतव्यक्तिशक्ति)स्थूलतापत्त्या, पृथक्(थु)कुक्ष्यादिप्रकारेण व्यक्तिशक्तिरस्य(स्यां) मृद(द्य)शक्तिमत्यां सूक्ष्मावस्थानादुत्तरकालं देश-कालाधवबन्धापगमात् स्थूलतापत्त्या इन्द्रियग्राह्यतया निर्मय॑दर्पणस्वरूपोपलब्धिवत् कर्मैव सद् वस्तु क भवति, मृद एव घटत्वात् / मृदेव हि घटो भवति / घटमात्मानमात्मनोऽवस्थान्तरमात्राविशिष्टमवस्थान्तरमात्र विशिष्टेन करोति कतुरेव कते[म]त्वाभ्युपगमात् / कुलालदण्डादीनां तर्हि साधनत्वाभावः, स्वयमेव मृदः कर्तृ-कर्मत्वाभ्युपगमात् / घटस्यैवेति चेत् , न, अत एव तत्साधनत्वात् / वीरणादितोऽकरणात् / असदकरणादिहेतुभ्यो मृयेव सन्तं घटं कुलाल-चक्र-दण्डादयोऽभिव्यञ्जयन्तः कर्तृ-करण-सम्प्रदानापादानाधिकरणादिभावं प्रतिलभन्ते तद्विषयमेव, न वीरणादिविषयं, न तन्त्वादिविषयं, तदात्मगतव्यक्तिशक्तिप्रतिनियतस्वसाधनक्रमसमावेशादेव / तानि च कारणानि परस्परोपजनितकार्यसाधनशक्तीन्येकप्रबद्धेन प्रवर्तमानानि कारणानी(काणी)त्युच्यन्ते, नान्यविषयाणि / तस्मात् कुला[ला]दीनामपि तथैव कर्तृत्वादिभावोपपत्तेः। 'घटेनैव घटः क्रियते' इति साधूक्तम् /