________________ 248 नयचक्रम् / [विध्युभयारः योज्यः(यः) स्वो यथास्वं प्रकाशः सत्त्वे नास्ति, इतरापेक्ष उत्पन्न एवमितरावपीति / तैरकारणसद्भिः प्रकाशादिभिरारब्धं परस्पराश्रयणेन व्यक्तं प्रवृत्तं नियतं च यत् कार्य त्रिगुणं शब्दादि तदप्यलातचक्रवद् भ्रान्तिमात्रं, न परमार्थतोऽस्तीत्यापन्नम् / त्वदुक्तहेतुसामर्थ्यादेव तन्मयाऽऽरब्धत्वादसदात्मकं हि तत् त्वयैवोक्तं हि- 'यच्च यन्मयैरारब्धं, तदात्मकं तत्' इति शब्दादीनां सुखाद्यात्मकत्वं शब्दाद्यारब्धानां भूतानां, भूतारब्धानां च शरीरादि-घटादीनाम् , तस्माद् वयमपि तथैव ब्रूमः-'शब्दादि असदात्मकम् , तन्मयैरारब्धत्वात् , कापोसिकतन्त्वारब्धपटकार्यासिकत्ववत् / यथा कार्यासिकैस्तन्तुभिरारब्धः पटः कासिक इत्युच्यते; तथा शब्दाद्यसन्मयं तन्मयप्रकाशाद्यारब्धत्वादिति / तन्मयतन्मयं चेति / यदपि च भूतादि, शरीरादि, घटादि, सर्वमसदात्मकं तन्मयं तन्मयारब्धत्वात् , कापासिकपटकुटेरपि कापासिकत्ववदिति तच्छास्त्रप्रसिद्धमेवोदाहरणं रूपादि-सुखादिमयत्ववदिति शब्दस्यासन्मयत्वे साध्ये रूपादि-सुखादिमयत्वमुदाहरणम् / रूपादीनामपि तथैवासन्मयत्वं शब्दादि-सुखादिमयत्वदृष्टान्तेनापाद्यमिति / अथोच्येत- एवमेव तत्कारणत्वम् / तेषां सत्त्वादीनां कारणत्व[मेव]मेव युज्यते, [तत्र च] तेषु सत्त्वादिषु कारणेषु शब्दादिकार्यसत्त्वमेवमेव युज्यते प्रतिस्खं प्रकाशादिकार्याणां शुक्ल-रक्त-कृष्णतन्त्वात्मिकाया रजोः] कार्यायास्तन्तुकारणत्ववद् यथा प्रत्येकं शुक्लादिगुणास्तन्तवस्त्रयोऽपि त्रिगुणामेकां [रज्जमा]रभमाणाः कारणत्वं नातिवर्तन्ते [त]तस्तेषु सत एव त्रैगुण्यस्याविर्भावाद् रजोः सत्कार्यत्वं, तथा सत्त्वादिकारणत्वं शब्दादिसत्कार्यता चेति / __ अत्रोच्यते- न त्वेवमित्यादि[यावत् सत्त्वस्वात्मवदिति / एवमेवेति यदे[तद्वचनं] तस्य द्वयी गतिः / यद्वाऽस्मदुक्तवद् एकात्मकं कारणमनेकाकारविपरिवृत्ति पुरुषवदित्यभ्युपगमादिति / तद्दर्शयति सकारणं यथाऽस्मदुक्तवद् वैकत्वं रजसस्तमसी अपि सत्त्वमेव / प्रकाशकारणत्वं च तयोर्यथा प्रारव्याख्यातं सिद्धम् / अत एव तस्यां गतौ दोषः स एव पुरुषाद्यन्यतमैककारणवादाभ्युपगम इति / अथ त्वन्मतेन जात्यन्तरसुखादित्रयकारणतदात्मककार्याभ्युपगमे नेवमे]वेत्येषा गतिरिति / इतर आह- 'एषा गतिरस्तु, को दोषः ?' इति / अत्र दोषकुतूहलं चेद् ब्रूमः-सर्वव्यक्तव्यापि चेत्यादि। तदेव ह्यसत्कार्यत्वमित्थं भावनान्तरेणापाद्यते- सर्वव्यक्तं शब्दादि तन्तु-पटादि वा व्यापितुं शीलमस्य तदसत्कार्यत्वम् सर्वव्यक्तव्यापि / कस्माद्धेतोः? प्रतिगुणं प्रकाशाघोर्द्वयोः कार्यात्मनोः प्रागभूतत्वात् / गुणं गुणं [प्रति] प्रतिगुणं, सत्त्वे