________________ असत्कार्यवादिता-विचारः] न्यायागमानुसारिण्यलङ्कृतम् / 247 शब्दात्मभावाय प्रवृत्तेः, सत्त्ववत् / यच्छब्दात्मभावाय प्रवर्तते, तत्प्रकाशात्मकं दृष्टं, यथा सत्त्वम् / वैधयेण पुरुषवदिति / यत् प्रकाशात्मकं न भवति, न हि तच्छब्दात्मभावाय प्रवर्तते, यथा तव पुरुष इति / किं चान्यत्-असत्कार्यवादिनो(ता)ऽत्यन्तानिष्टा प्रसक्ता, एवमनभ्युपगम इति प्रवर्तते / सा चासत्कार्यवादिताऽतिस्फुटैव / कथम् ? सत्त्वे प्रवृत्ति-नियमयोरभूतयोः शब्दात्मव्यवस्थानवचनादभ्युपगमात् सत्त्वस्य कार्य प्रकाश एवेष्टो, न प्रवृत्तिनियमौ जात्यन्तरभूतरजस्तमस्कार्यत्वात् / तौ तत्रासन्तौ पुनस्तस्य कार्यावभ्युपगतौ / कुतः ? व्यवस्थानवचनात् / सत्त्वं शब्दकार्य प्रख्याय शब्दात्मना व्यवतिष्ठमानमिति ब्रुवताऽभ्युपगमादितीति / तदा यदि तत् सत्वमप्रवृत्तमनियतं वा पूर्ववदप्रवृत्तत्वादनियतत्वाच्च तयोस्तथारूपां शब्दात्मिकां [प्रवृत्ति न प्रख्यापयनैव स्याद् वन्ध्यापुत्रवदित्युक्तत्वात् / व्यवस्थानस्य च प्रकाश-प्रवृत्ति-नियमात्मकस्य प्रागसतः सत्त्वविषयस्यारम्भावस्थायां साम्यावस्थाविलक्षणायामभ्युपगतत्वादसतोः प्रवृत्ति-नियमयोः सत्त्वाभ्युपगमादतिस्फुटः(टा)। किं चान्यत्-रजस्तमसोरित्यादि, यावत् प्रकाशनस्याभ्युपगमादिति / असत्कार्यवादिताऽतिस्फुटैवेति वर्तते / तस्मिन्नेव सत्त्व प्रकाशात्म-व्यवस्थानोपकारवाक्ये रजस्तमसोः शब्दभावाय प्रवृत्तिं प्रख्यापयतीति वचनात् तयो रजसि तमसि च प्रागसतः प्रकाशस्य जात्यन्तरकार्यभूतस्य तदानीं प्रख्यापनादसतोऽभिव्यक्तिरुत्पत्तिर्वाऽभ्युपगता / यदि ते रजस्तमसी तथा प्रतिपद्यते व्यवतिष्ठेते प्रवर्तेते वा, ततः सत्त्वेन प्रकाशितं न स्यादाचार्येणेव नर्तक्याः प्रागप्रतिपन्नाया अप्रवृत्ताया अव्यवतिष्ठमानायाः / तस्मात् प्रकाशोऽपि तयोः प्रागसन् पश्चाद्या(जा)त इत्यसत्कार्यवादिता। सेदानीं वैशेषिकासत्कार्यवादितया तुल्येति भाव्यते-पृथग्भूततत्त्वेत्यादि / पृथग्भूतं तत्त्वमात्मा कार्य तद्भावो यस्य स पृथग्भूततत्त्वो गुणः स एवाश्रयः कारणं च तसिंस्तस्मिन् गुणे सत्त्वे रजसि तमसि] च वैशेषिककल्पितपटादिकार्यस्य च तन्त्वादिषु परस्परसंयोगापेक्षेष्वसतो भवनवत् प्रकाश-प्रवृत्ति-नियमानां कार्याणां सत्त्वे प्रवृत्ति-नियमयोरसतोः प्रकाश-नियमयोश्च रजसि [प्रवृत्ति-]प्रकाशयोश्च तमस्यसतां परस्परापेक्षप्रवृत्तिषु सत्त्वादिषूत्पत्तिर्भवनमुक्तं भवति / प्रागसन्तः प्रकाशप्रवृत्ति-नियमाः शब्दाद्यारम्भकाल उत्पन्ना इति प्रतिपद्यस्या(स्व)पृथग्भूततत्त्वक(का)रणाश्रयाभिव्यक्तः वैशेषिकाभिमततन्त्वाश्रयपटवत् / किं चान्यत्- तैर्यथास्वमित्यादि / वैशेषिकाभिमतकार्यादप्येतत् पापीयो भ्रान्तिमात्रत्वात् / उक्तन्यायेन ते सत्त्वादिषु प्रकाशादयः कारणेष्वसन्तः; यथाखं