________________ 246 नयचक्रम् / [विध्युभयारः प्रकाशते न व्यज्यत इति / कस्मात् ? अप्रकाशकत्वे सन्निहितप्रकाशकारकत्वात् / यदप्रकाशकत्वे सन्निहितप्रकाशकारकं तदप्रकाशमानं दृष्टम् / यथा प्रदीपेनेव वियत् / रजस्तमसी च[न]प्रकाश्य(शे)ते अप्रकाशकत्वात् प्रदीपेनेव पृथिवीत्येतत्पूर्वेण साधनेन व्याख्यातार्थ सत् सन्निहितप्रकाशकारकत्वादिति न विशेष्यते / यथा च वियत्-पृथिव्योरप्रकाशत्वसामान्ये सत्येव कारकसान्निध्येऽपि प्रकाशाप्रकाशौ दृष्टौ; एवं पुरुषस्थाप्रकाशात्मकत्वेऽप्यप्रकाशतैव रजस्तमसोः, सत्त्वस्य प्रकाशतैवेति विशेषोऽस्त्विति / __अत्रोच्यते--- एवं तावद् विकल्पसमजातित्वादनुत्तरमेव प्रयत्नानन्तरीयकत्वे सत्येव मृतामूर्तत्वादिविशेषवद् घट-शब्दयोरनित्यो नित्यश्चेति विशेपः स्यादिति वचनवत् / किं चान्यत्- एतदपि च नैव वियतोऽप्रकाशकत्वम् / त्वन्मतेनैव शब्दात्मना प्रकाशमानत्वादस्ति / यदपि च रूपविषयाप्रकाशनं पृथिव्यादिष्वेतदपि च नैवाप्रकाशनं घटते यस्माद् रूपादीत्यादि, यावत् नापकाशत्वे प्रकाशनमिति / यस्मादिति हेतुर्वक्ष्यमाणार्थो, नाप्रकाशनं घटत इति साध्यम् / रूपादिरिति- रूप-रस-गन्धास्तेजोऽम्भो-भूमिषुः तेभ्यः पृथग्भूतावाकाशानिलो शब्दस्पर्शात्मको रूपादिपृथग्भृताभ्यामेव वा ताभ्यां पृथग्भूता विपरिणतिर्येषां तेषु रूपादिपृथग्भूत-पृथविपरिणतिषु पृथिव्यादिषु पृथिव्यबादिषु तेजोरहितेषु विद्यमानः प्रकाशकत्वप्रकाशः स्वगतोऽतो विपरिणतस्तिरोभूतः, किन्तु प्रकाश्यप्रकाशोऽस्त्याविभूतत्वादतस्तेषां प्रकाश्यतैव, क्वचिदत्यन्तमतिरोभूतत्वाद् वज्रा(ज्ञा)दिषु प्रकाशकता च दृश्यत एव / तस्मात् खरपृथिव्यादिषु प्रकाशता स्वगतप्रकाशविपरिणामाद् विद्यमानप्रकाशकतेव / बोध्य-बोधकमनुष्यप्रकाश्य-प्रकाशकत्ववत् / ज्ञानस्वभाव एव हि मनुष्यः प्रकाशात्मा प्रकाश्यो बोध्यो बोधकश्च दृष्टः, न कुड्यादिरचेतनः; तथा पृथिव्यादयः / मनुष्यग्रहणमस्यैव रथ्यापुरुषस्योदाहायेत्वात् / स्यान्मतम्-बोधक-बोध्ययोर्हेतु-हेतुमद्भावान्नोभयोरुभयधर्मतेति दृष्टान्त-दार्टान्तिकवैषम्यमिति, एतच्चायुक्तम् / यस्माद्धेतुमत्त्वेऽपि तयोः सूरि-शिष्ययोर्द्वयोरपि प्रत्येकं नाप्रकाशत्वे प्रकाशनमिति / तस्मान्न वियत्-पृथिव्योरपि प्रकाशकत्वसाम्याद् दृष्टान्ताभावे पुरुषस्य रजस्तमसोश्च विशेषोपपादनासिद्धिः / अथापि त्वदनुवृत्त्या वियत्-पृथिवी विशेषोपपत्तिमभ्युपेमः, पुरुषस्याप्रकाशत्वे सत्यप्रवर्तनादि, रजस्तमसोश्च प्रवर्तनादि, तथापि ते वियत्-पृथिवीविशेषोपपत्तिवच्च त एवं प्रवर्तेते रजस्तमसी, न पुरुष इत्यस्तु नाम, नैवास्तीत्यभिप्रायः / किं त्वयमन्यस्ते दोषोऽनिष्ट आपद्यते-प्रकाशात्मके तर्हि रजस्तमसी सत्त्व-विलक्षणे न भवत इत्यर्थः / कुतः ?