________________ प्रस्तावना गिरिखण्डलनामाऽस्ति, पर्वतस्तद्गुहाऽन्तरे / रूक्षनिष्पावभोक्ता स, षष्ठपारणकेऽभवत् / / एवमप्यर्दितः संघो, वात्सल्याजननीयुतः / ईदृक् श्रुतस्य पात्रं हि, दुष्प्रापं मा विशीर्यताम् / / विकृति माहितस्तेन, चतुर्मासिकपारणे / साधवस्तत्र गत्वाऽस्य, प्रायच्छन् भोजनं मुनेः // श्रुतदेवतया संघ-समाराधितया ततः / ऊचेऽन्यदा परीक्षार्थ, 'के मिष्टाः ?' इति भारती॥ ... 'वल्लाः' इत्युत्तरं प्रादात् , मल्लः फुल्लतपोनिधिः। __ षण्मासान्ते पुनः प्राह, वाचं 'केनेति' तत्पुरः // 30 // उक्ते 'गुड-घृतेनेति', धारणातस्तुतोष सा / वरं वृण्विति च प्राह, तेनोक्तं यच्छ पुस्तकम् // श्रुताधिष्ठायिनी प्रोचेऽवहितो मद्वचः शृणु / ग्रन्थेऽत्र प्रकटे कुर्युर्दृषिदेवा उपद्रवम् // 32 // श्लोकेनैकेन शास्त्रस्य, सर्वमर्थ ग्रहीष्यसि / इत्युक्त्वा सा तिरोऽधत्त, गच्छं मल्लश्च सङ्गतः।। नयचक्रं नवं तेन, श्लोकायुतमितं कृतम् / प्राग्ग्रन्थार्थप्रकाशेन, सर्वोपादेयतां ययौ // 34 // शास्त्रस्यास्य प्रवेशं च, संघश्चक्रे महोत्सवात् / हस्तिस्कन्धाधिरूढस्य, प्रौढस्येव महीशितुः॥ अन्यदा श्रीजिनानन्दप्रभुस्तत्रागमच्चिरात् / सूरित्वे स्थापितो मल्ला, श्राद्धैरभ्यर्थ्य सद्गुरुम् // तथाऽजितयशोनामा, प्रमाणप्रन्थमादधे / अल्लभूपसमे वादिश्रीनन्दकगुरोगिरा // 37 // शब्दशास्त्रे च विश्रान्तविद्याधरवराभिधे। न्यासं चक्रेऽल्पधीवृन्दबोधनाय स्फुटार्थकम् // यक्षेण संहिता चक्रे, निमित्ताष्टाङ्गबोधनी। सर्वान् प्रकाशयत्यर्थान् , या दीपकलिका यथा // मल्लः समुल्लसन्मल्लीफुल्लवेल्लद्यशोनिधिः। शुश्राव स्थविराख्यानात्, न्यक्कारं बौद्धतोगुरोः॥ अप्रमाणैः प्रयाणैः स, भृगुकच्छं समागमत् / संघः प्रभावनां चक्रे, प्रवेशादिमहोत्सवैः // बुद्धानन्दस्ततो बौद्धानन्दमद्भुतमाचरत् / श्वेताम्बरो मया वादे, जिग्ये द वहन्नमुम् // 42 // यस्पोन्नमत्यपि भ्रूनावलेपभरभारिता / जगद्मष्टं कृपापात्रं, मन्यते स धरातलम् // 43 // जैन नागतान् श्रुत्वा, विशेषादुपसर्गकृत् / संघस्याथ महाकोशो, विशां वृन्दैरवीवदत् // पूर्वजः श्वेतभिक्षूणां, वादमुद्राजयोद्धुरः / स्याद्वादमुद्रया सम्यगजेयः परवादिभिः // 45 // - परं सोऽपि मयाऽऽत्मीयसिद्धान्तः प्रकटीकृतैः। ........ कलितश्थुलुके कुम्भोद्भवेनेव पयोनिधिः // 46 // युग्मम्... किं करिष्यति बालोऽसावनालोकितकोविदः / गेहेनर्दी सारमेय इवासारपराक्रमः॥४७॥ काचित् तस्यापि चेच्छक्तिस्ततो भूपसभा-पुरः / खं दर्शयतु येनैणं, वृकवद् ग्रासमानये // मल्लाचार्य इति श्रुत्वा, लीलया सिंहवत् स्थिरः / गम्भीरगीर्भरं प्राह, ध्वस्तगर्वोऽद्विषन्नृणाम् // जैनो मुनिःशमी कश्चिदविवादावदातधीः। जितो जित इति खेच्छावादोऽयं किं घटापटुः॥ अथवाऽस्तु मुधा चित्तावलेपं शल्यवद् दृढम् / अलमुद्धर्तुमेतस्य, सज्जोऽस्मि विलसजयः॥ सज्जनो मे सुहृच्चापि, ज्ञास्ये स्थास्यति चेत् पुरः। - तिष्ठन् स(स्व)कीयगेहान्तर्जनो भूपेऽपि कद्वदः॥ 52 //