________________ नयचक्रस्य गौः सत्तारघना यस्य, पक्षाक्षीणलसद्भुवि / अवक्त्रा लक्षभेत्री च, जीवमुक्ता सुपर्वभृत् // 2 // जडानां निबिडाध्यायप्रवृत्तौ वृत्तमद्भुतम् / प्रमाणाभ्यासतः ख्याते, दृष्टान्तः किंचिदुच्यते॥३॥ रेणुप्राकारतुङ्गत्वाइ, रथेनागच्छतो रवेः / रथाङ्गमिव सलमं, शकुनीतीर्थनाभिभृत् // 4 // हारनिकरैर्युक्तं, वप्रनेमिविराजितम् / पुरं श्रीभृगुकच्छाख्यमस्ति खस्तिनिकेतनम् // 5 // चारुचारित्रपाथोधिशमकल्लोलकेलितः। सदानन्दो जिनानन्दः, सूरिस्तत्राच्युतः श्रिया // 6 // अन्यदा धनदानाप्तिमत्तश्चित्ते छलं वहन् / चतुरङ्गसभाऽवज्ञामज्ञातमदविभ्रमः // 7 // चैत्ययात्रासमायातं, जिनानन्दमुनीश्वरम् / जिग्ये वितण्डया बुद्धानन्दाख्यः सौगतो मुनिः // 8 // युग्मम् पराभवात् पुरं त्यक्त्वा, जगाम वलभी प्रभुः। प्राकृतोऽपि जितोऽन्येन, कस्तिष्ठेत् तत्पुरान्तरा ? // 9 // तत्र दुर्लभदेवीति, गुरोरस्ति सहोदरी / तस्याः पुत्रास्त्रयः सन्ति, ज्यष्ठोऽजितयशोऽभिधः // द्वितीयो यक्षनामाऽभूत् , मल्लनामा तृतीयकः / संसारासारता चैषां, मातुलैः प्रतिपादिता / जनन्या सह ते सर्वे, बुद्ध्वा दीक्षामथादधुः। संप्राप्ते हि तरण्डे कः, पाथोधिं न विलङ्घयेत् ? // 12 // लक्षणादिमहाशास्त्राभ्यासात् ते कोविदाधिपाः / अभूवन भूपरिख्याताः, प्रज्ञायाः किं हि दुष्करम् ? // 13 // पूर्वर्षिभिस्तथा ज्ञानप्रवादाभिधपञ्चमात् / नयचक्रमहाग्रन्थः पूर्वाचके तमोहरः // 14 // विश्रामरूपास्तिष्ठन्ति, तत्रापि द्वादशारकाः। तेषामारम्भ-पर्यन्ते, क्रियते चैत्यपूजनम् 15 किंचित्पूर्वगतत्वाच्च, नयचक्र विनाऽपरम् / पाठिता गुरुभिः सर्व, कल्याणीमतयोऽभवन् // 16 // त्रिभिर्विशेषकम् एष मल्लो महाप्राज्ञस्तेजसा हीरकोपमः / उन्मोच्य पुस्तकं बाल्यात् , स स्वयं वाचयिष्यति // तत्तस्योपद्रवेऽस्माकमनुतापोऽतिदुस्तरः / प्रत्यक्षं तज्जनन्यास्तज्जगदे गुरुणा च सः // 18 // वत्सेदं पुस्तकं पूर्व, निषिद्धं मा विमोचयेः / निषिध्येति विजद्दुस्ते, तीर्थयात्रां चिकीर्षवः / / मातुरप्यसमक्षं स, पुस्तकं वारितद्विषन् / उन्मोच्य प्रथमे पत्रे, आर्यामेनामवाचयत् // 20 // तथाहि"विधिनियमभङ्गवृत्तिव्यतिरिक्तत्वादनर्थकमवोच(वचोवोत्। जैनादन्यच्छासनमनृतं भवतीति वैधर्म्यम् // 21 // " अर्थ चिन्तयतोऽस्याश्च, पुस्तकं श्रुतदेवता / परं चाच्छेदयामास, दुरन्ता गुरुगी:-क्षतिः॥ इति कर्तव्यतामूढो, मल्लश्चिल्लत्वमासजत् / अरोदीच्छैशवस्थित्या, किं बलं दैवतैः सह ? // पृष्टः किमिति मात्राऽऽह, मद्वृत्तात् पुस्तकं ययौ। संघो विषादमापेदे, ज्ञात्वा तत्तेन निर्मितम् // आत्मनः स्खलितं साधु, समारचयते स्वयम् / विचार्येति सुधीर्मल्ल आराध्नोत् श्रुतदेवनाम् //