________________ 20 प्रत्यक्ष प्राभिकानां तन्मध्येभूपसभं भृशम् / अनुद्यतां यथा प्रज्ञा-प्रामाण्यं लभ्यते ध्रुवम् // 13 // इत्याकर्ण्य वचः स्मित्वा, बुद्धानन्दोऽप्युवाच च / वावदूकः शिशुप्रायः, कस्तेन सह संगरः / / अस्तु वाऽसौ निराकृत्य एव मे द्विषदन्वयी / ऋणस्तोकमिवासाध्यः, कालेनासौ हि दुर्जयः॥ ततः क्रूरे मुहूर्ते च, तौ वादि प्रतिवादिनौ / संसद्याजग्मतुः सभ्याः, पूर्ववाद लषोर्ददुः // 56 // मल्लाचार्यः स षण्मासी, यावत् प्राज्ञार्यमावदत् / नयचक्रमहामन्थाभिप्रायेणात्रुटद्वचाः।। नावधारयितुं शक्तः, सौगतोऽसौ गतो गृहम् / मल्लेनाप्रतिमल्लेन, जितमित्यभवन् गिरः॥५८॥ मल्लाचार्य दधौ पुष्पवृष्टिं श्रीशासनामरी / महोत्सवेन भूपालः, खाश्रयेतंन्यवेशयत् // 59 // बुद्धानन्दपरीवारमपभाजनया ततः / राजा निर्वासयन्नत्र, वारितोऽर्थनपूर्वकम् // 6 // बिरुदं तत्र 'वादी'ति, ददौ भूपो मुनिप्रभोः / मल्लवादी ततो जातः, सूरिभूरिकलानिधिः। बुद्धानन्दो निरानन्दः, शुचा निष्प्रतिभो भृशम् / रात्रौ प्रदीपमादाय, प्रारेभे लिखितुं ततः // तत्रापि विस्मृतिं याते, पक्षहेतुकदम्बके / अनुत्तरो भयाल्लज्जा-वैशसात् स्फुटिते हृदि // 33 // मृत्युं प्राप खटीहस्तो, राज्ञा प्रातmलोक्यत / मल्लेन च ततोऽशोचि, वाद्यसौ हा! दिवंगतः।। कस्य प्राणादसौ प्रज्ञां, प्रगल्भां स्वां प्रबुद्धवान् / अवज्ञाता शिशुत्वात् नः, स्वयमीहक् च कातरः // 65 // वलभ्याः श्रीजिनानन्दः, प्रभुरानायितस्तदा / संघमभ्यथ्ये पूज्यः स्वः, सूरिणा मल्लवादिना // 66 // माता दुर्लभदेवीति, तुष्टा चारित्रधारिणी / बन्धुना गुरुणाऽभाणि, स्वं खिता पुत्रिणीपुरि। गुरुणा गच्छभारश्च, योग्ये शिष्ये निवेशितः / मल्लबादिपभी को हि, खौचित्यं प्रविनायेत् / / नयचक्रमहाग्रन्थः, शिष्याणां पुरतस्तदा / व्याख्यातः परवादीभकुम्भमेदनकेसरी // 69 // श्रीपमचरितं नाम रामायणमुदाहरत् / चतुर्विंशतिरेतस्य सहस्रा ग्रन्थमानतः // 50 // तीर्थ प्रभाव्य वादीन्द्रान् , शिष्यान् निष्पाद्य चामलान् / गुरु-शिष्यौ गुरुप्रेमबन्धेनेवेयतुर्दिवम् // 71 // बुद्धानन्दस्तदा मृत्वा, विपक्षव्यन्तरोऽजनि / जिनशासनविद्वेषिप्रान्तकालमतेरसौ // 72 // तेन प्राग्वैरतस्तस्य, ग्रन्थद्वयमधिष्ठितम् / विद्यते पुस्तकस्थं तत् , वाचितुं स न मच्छति // 3 // श्रीमल्लवादिप्रभुवृत्तमेतत् , म(स)चेतनावल्लिनवाम्बुदामम्। व्याख्यान्तु शृण्वन्तु कविप्रधानाः, प्रसन्नदृष्ट्या च विलोकयन्तु // 7 // श्रीचन्द्रप्रभसूरिपट्टसरसीहंसप्रभः श्रीप्रभा चन्द्रः सूरिरनेन चेतसि कृते श्रीराम-लक्ष्मीमुषा / श्रीपूर्वर्षिचरित्र-रोहणगिरी श्रीमल्लवाघद्भुतं . श्रीप्रद्युम्नमुनीन्दुना विशदितः श्रयो नवामोऽभक्त // 5 //