________________ नयचक्रम्। 210 [विध्युभयार:मिति प्रतिज्ञा हीयते / अथैकपुरुषमयत्वप्रतिज्ञा परिपाल्यते भिन्नार्थविषयाधाराऽवधारणोपपत्तिर्विशीयते / कथम् ? घटरूपादित्ववत् / यथा घट एव रूपादय इत्येतस्मिन् पक्षे न रूपादयो नाम केचित् सन्ति घंटादर्थान्तरभूतास्तत्र रूपस्वात्मनो रूपावस्थैव लक्षणं न रसाद्यवस्थापि, घटात्मनस्तु रूपावस्थालक्षणमेवेतरासामत्यागादिति / कोऽर्थः स्यात् ? रूपाद्यभावात् / तथेहापि विनिद्रैकावस्थालक्षणपुरुषव्यतिरिक्ताथाभावादितरासां सुप्ताद्यवस्थानामभावादेव कोऽवधारणाथावकाशः? इत्यवधारणाभावः प्रतिज्ञाव्याघातो वेत्येदुभयं प्रदर्शयति-पुरुषत्वं प्रागुक्तमवस्थानाम् , अधुना तु पृथक् स्वात्मनस्ता उच्यन्तेऽवस्था इति, प्रागुक्तवदवधारण भेदस्यान्याय्यत्वं प्रतिज्ञाव्याघातश्चेति / इति तत्त्वमिति / अस्माद्वेतोः प्रतिज्ञाव्याघातादवधारणभेदादन्याय्यत्वाञ्चोभयथापीष्टविपरीतं तत्त्वमवस्थात्वम् / पुरुषस्यावस्था एव पुरुषो, न पुरुष एवावस्था इत्येतत् प्राप्तम् , रूपादिघटत्ववत् यथा रूपादय एव घट इत्येतस्मिन् पक्षे न घटो नाम कश्चिदित्ययमर्थः / तत्र रूपमेव न रस इत्याद्यवधारणमुपपद्यते भिन्नार्थविषयत्वात् तथा यद्यवस्था एव पुरुष इत्युच्येत युज्येतावधारणम् / पुरुषाभावेवस्थानामेव भिन्नानामितरावस्थानिवृत्त्यर्थमेकावस्थावधारणम् / तत्तु न युज्यते / चैतन्यात्मकैकपुरुषमयत्वप्रतिज्ञाव्याघातादिति / किं चान्यत्-यदा च तासामेव तत्त्वमित्यादि, यावल्लोकवदेव तत्त्वापत्तिरिति, यदा च तासां भावस्तत्त्वं भाव एव तास्ताभिरेव भूयते भेदेनावधायेमाणत्वाद्विनिद्रावस्थैव विनिद्रावस्थास्वात्मेति लक्षणं, पुरुषे तु सा लक्षणमेव, न तु सैव लक्षणं पुरुषस्यान्यासामप्यवस्थानां तल्लक्षणत्वात्यागात् / तथा तथा तासामितरेतरात्मस्वभावः, 'अवधारणभेदात् तथा तथेति वचनादुत्तरोत्तरभेदानामपीतरेतरात्मसु नास्ति भावस्तद्यथा-रूपावस्थास्वात्मनि रूपावस्थैव लक्षणं, घटस्वात्मनि तु रूपावस्थालक्षणमेव, रसाद्यवस्थानामपि तल्लक्षणत्वात्यागात् / तथा पृथिवीलोष्टादीनामितरेतरात्मस्वभावात् लोष्टावस्थास्वात्मावधारणे लोष्टावस्थैव / लोष्टावस्था[स्वात्मपृथ्वी] स्वात्मावधारणे तु सा लक्षणमेव / ननु सैव च ज्ञानादीनामप्यत्यागादिति सर्वत्राऽस्त्वेवधारणभेदस्ततोऽवधारणभेदात् त्वदुक्तादेव 'तथा तथेतरेतरात्मस्वभावादवधारणभेदात्' इत्यत्यन्तभिन्नार्थत्वमतो भिन्नाभिन्नार्थत्वात् सामान्याभावः / सामान्याभावात् विविक्तानेकभेदावस्थामात्रत्वात् सर्वमसर्वगतं घटो घट एव, रूपं रूपमेव, रसो रस एव, पटः पट एवेत्यादि प्राप्तम् , ततो ननु तदेव दर्शनमेतदप्यापन्नम् / यदुक्तम्-'यथा लोकग्राहमेव वस्तु शास्त्रेष्वनर्थको विवेकयत्नः' / इत्यादि। स्वपरविषयसामान्यविशेषनिराकरणेन लौकिकमेव / यथा द्रव्यक्षेत्रकालभाव 1 पक-ख। २°नः सुक-ख। 3 णत्वा क-ख। -४°ण° क-ख / 5 °स्वाव क। °वस्थाव ग। 6 °दव्यपेतम् /