________________ पुरुषावस्थयोर्विचारः] न्यायागमानुसारिण्यलङ्कृतम् / 211 भवनमेव च वस्त्विति तदेव तत्त्वमिति लोकवदेव तत्त्वापत्तिरिति / अथाविकल्पशब्दार्थत्वाल्लक्षण एव तत्त्वज्ञानतत्त्वत्वात् / तस्य निर्विकल्पस्याविभागस्यासंसर्गभेदपरिणामशून्यस्य मेघस्तनितादिकल्पशब्दगोचरातीतस्य मयूरविरुतवत् सङ्केताद् व्यवहारानुपातिभिर्वा शब्दैरनुपलक्ष्यस्य गोविषाणादिवत् स्वांशकल्पनामात्रभिन्नशब्दार्थाभिमानविकल्पस्य / ननु लौकिकवदज्ञातसामान्यविशेषव्यवस्थाविचाररूपस्य तत्त्वस्य कुतो वा लक्षणं कुतोऽवस्थाः ? इत्येतच्चायुक्तम् , चतुरवस्थावर्णनाद् यदि ताश्चतस्रोऽप्यवस्था असत्या एव तद्वर्णनं खपुष्पसौरभवर्णनवत् कथमुपपद्यते ? इति / किं चान्यत्-सर्वगतत्वभावनाभावप्रसङ्गात् / तदर्शयन्नाह-अनेकात्मकसर्वगतत्वभावकं वा कथमिति वर्तते / सर्वं गतं सर्वगतं 'सृ गतौ' सर्वमित्ययमेव सर्वशब्दो गमनार्थदेशान्तरप्राप्तिलक्षणां क्रियां भिन्नविकल्पार्थविषयामाह / यद्यन्यच्चान्यच्च तदशेषं सर्वमिति / ततश्च तत्तदशेषं गतं सर्वगतं तद्भावः सर्वगतत्वम्, अर्थानेकात्मकत्वाविनाभावि अनेकात्मकं हि सर्व भिन्नानेकविकल्पकृ. स्मार्थगतं सर्वगतमित्येषा भावना निर्विकल्पैकात्मकत्वे न युज्यत इति / किं चान्यत्-निर्विकल्पत्वाभावप्रसङ्गात् / यद्यस्यैकैकेत्यादि, यावन्मेचकात्मके भवतः। यद्यस्य पुरुषस्य एकैका पृथक् पृथक् , एकामेकां प्रति प्रत्येक समाप्ता सुप्ताद्यवस्था न भवति / ततश्चैकैकस्या अभावात् ता न सन्त्येवेति कृत्वा तासामसत्त्वात् कुतोऽस्य पुरुषतत्त्वस्य तासामेव भिन्नानामेकत्वापत्त्यात्मिका? तत्पुरुषत्वमेकमविकल्पमित्यविकल्पता स्याद्भिन्नविकल्पैकापत्त्यात्मिकत्वादविकल्परूपतायाः, सा चाविकल्परूपता कुतः ? नास्त्येवेत्यर्थः। को दृष्टान्तः ? पृथक् पृथगवृत्तसितासितादिवर्णैक्यापत्त्यात्मकमेचकवर्णाभाववत् / पृथक् सिद्धवर्णाभावे मेचकवर्णाभावात् तद्दर्शयति / न हि पृथगवृत्ते रूपे द्वे अपि सितासिते खेन रूपेण मेचके भवतः / भेदात्मलाभाविनाभाव्यैकापत्त्यभावात् , एवमवस्था अपि पृथक्स्वरूपेणासिद्धा निर्विकल्पैकरूपा न भवितुमर्हन्तीति / एवं तावदवस्थानामभावे चतुरवस्थावर्णनानेकात्मकसर्वगतत्वभावननिर्विकल्परूपत्वाभावदोषाः। किं वा पार्श्वशरक्षेपेण भयजननानुवृत्त्या तमेव पुरुषं निराकुर्महे / तद्यथासन्नेव त्वसावेवमवस्थानामसत्त्वे, कुतः ? अनवस्थात्वादवस्थातोऽन्यत्वादनवस्थात्मकत्वादवस्थात्वाभावात् पुरुषो वन्ध्यापुत्रवत् / / __ स्यान्मतम्-अरूपाद्यवस्थानात्मकस्य घटस्यावस्थावतोऽस्तित्ववत् सुप्ताद्यवस्थानात्मकस्य सुप्तादिचतुरवस्थावतः पुरुषस्यास्तित्वमित्येतच्चायुक्तम् / अनवस्थात्वे 1 गौर्विषाणी ककुमान प्रान्ते वालधिः सास्नावान् इति गोत्वे दृष्टं लिङ्गम् / (वैशे० 1 // 3 // 8) तुघ। 3 तर्हि ग। / 4 मध्यो घ।