________________ पुरुषावस्थयोर्विचारः] न्यायागमानुसारिण्यलङ्कृतम् / 209 न्योऽपि दोषः। अवस्थामवस्थां प्रति प्रत्यवस्थं, विनिद्रावस्थावृत्तिः सुप्तसुषुप्तजाग्रदवस्थास्वपि, तस्या एव निद्रावस्थाया एवाविशेषेण सर्वगृतत्वात् सुषुप्तावस्थापि तणादि सर्वगतं स्यात् / सर्वात्मकत्वाद्विनिद्रावस्थावत् , सर्वात्मकत्वं विनिद्रावस्थालक्षणत्वात् पुरुषवदित्युक्तम् / तस्मात् तृणाद्यपि सर्वगतमिति किं पुरुषैकत्वप्रकल्पनया? कः पुरुषवादविशेषाभिमानः ? 'तृणमेवेदं सर्वं यद्भूतं यच्च भाव्यं' 'यस्मात् परं नापरमस्ति किञ्चित् इत्यादि / 'तेनेदं पूर्ण तृणेन सर्वम्' इति च कसान पठ्यते ? इति / किं चान्यत्-अलक्षणत्वात् चेत्यादि, लक्षणं विशेष्यार्थान्तरादवच्छिद्यस्वरूपाऽवस्थापकं नीलोत्पलवत् / तत् पुनः स्वात्मन्यवस्थितत्वान्नास्ति लक्षणं प्रत्यवस्थं सर्वात्मसु वृत्तत्वात् , ततोऽतल्लक्षणत्वाद्वा विनिद्रावस्थाया अभावः स्यात् / स्वात्मन्यवस्थितत्वात् खपुष्पवत् , ततश्च तत्तत्त्वे तासां तत्त्वं चतसृणामवस्थानामेव तत्तत्त्वं चतुरवस्थाभावस्ता एव च सर्व, तदभावात् सर्वाभावः / सर्वाभावात् तदात्मकस्य सवोत्मकस्य पुरुषस्याप्यभाव इति / अत आह-ततश्च तत्तत्त्वचतुरवस्थसर्वात्मकपुरुषाभावः। चैतन्यमेव हि पुरुषस्थावस्थानां च लक्षणं तदभावे पुरुषस्यावस्थानां चाभावे किमवशिष्यते ? अथ विनिद्रालक्षणेत्यादि / अथ मतं भवतो विनिद्रावस्थापुरुषाभावदोषयोः परिहारे सर्वदोषपरिहारः / स चावधारणवैपरीत्यनेति / - तद्यथा-पुरुषस्तु पुरुष एव विनिद्रावस्थालक्षणविपरीतोऽपि / किं कारणम् ?, अवधारणभेदात् / कथमवधारणभेदः ?, उच्यते-विनिद्रावस्थास्वात्मन्यवधार्यमाणविनिद्रावस्थैव लक्षणम् , नान्या काचिदवस्थितिः, स्वात्मनो लक्षणत्वमवस्थायाः। नियतं सा त्वन्यथावस्थात्मनोऽपि लक्षणत्वान्न नियतेन विनिद्रावस्थायास्तावदभावोऽस्ति, पुरुषस्याप्यभावो नास्ति, पुरुषे तु लक्षणमेवेत्यवधारणात् / विनिद्रावस्था लक्षणमेव पुरुषस्य, नालक्षणमिति / पुरुषो लक्ष्यत्वेनानियतोऽन्याभिरप्यवस्थाभिलेक्ष्यत्वादन्यासामप्यत्यागाल्लक्षणत्वेन पुरुषस्येति भेदेनावधारणं यस्मात् स ह्यनेकरूपो मेचकवत् पुरुषः / वर्णसङ्करो हि मेचकः, स नीलोऽपि, पीतोऽपि, शेषव- . गोऽपि / तथा पुरुषो विनिद्रावस्थालक्षणोऽपि सुप्ताद्यन्यतमावस्थालक्षणोऽपीति / - अत्रोच्यते-नोक्तवदित्यादि, नैतदुपपन्नमुक्तवदवधारणभेदस्यान्याय्यत्वात् / उक्तेन तुल्यमुक्तवत् / तेनैव प्रागुक्तप्रकारेण, तेनैव न्यायेनावधारणभेदस्यावसर एव नास्ति / न्यायादनपेतं न्याय्यम् , न न्याय्यमन्याय्यम् / कुतः ? प्रतिज्ञाव्याघातात् / यद्यवधारणं भिन्नार्थविषयमाश्रीयते चैतन्यात्मकैकपुरुषमयमिदं सर्व. . °त्तेः ख। 2 एषा ग। ३°पे घ। 4 °नां सै ग-घ। 5 स्थितेः क-ख / 6 तो ग। 7 लक्षणत्वे क। पलक्षणत्वे ख। 8 ज्ञात क-ख / न० च०२७