________________ 207 पुरुषावस्थयोर्विचारः] न्यायागमानुसारिण्यलङ्कृतम् / वाद इति / एष देशभिन्नरूपादिसमुदयवादतुल्यः। नायं देशभिन्नरूपादिसमुदयवादतुल्य एव / किं तर्हि ? कालभेदभिन्नायुगपद्भाविसततसंवृत्तजनननिधननामरूपवादतुल्यक्षणिकवादोऽपि / यस्मात् तुरीयत्वप्रतिपादनार्थाभ्युपगतमुक्तिक्रमवत्त्वयुगपदवस्थावृत्तेः क्षणिकवाद इति / सुप्तसुषुप्तजाग्रत्परमविनिद्रावस्थाविशुद्धिक्रमान्यथावृत्त्यभ्युपगमादवस्थाक्षयोऽन्यथात्वमन्ते च क्षयदर्शनादादौ क्षयानुमेयावस्थानामिति क्षणिकवादः / को दृष्टान्तः ? वासोवत् / यथा वस्त्रं क्षणे क्षणे जीयद् जीयदन्ते विशीर्यते तथावस्था अपि / न केवलं समुदयक्षणिकवादावेव / किं तर्हि ? शून्यवादोऽपि / तद्यथा-चतुर्णा नेत्यादि / यथा पुरुषवादिना चतस्रोऽवस्थाः पृथक् परिगृह्य तावपि ज्ञानमेव सुप्तत्वात् सुप्तपुरुषवत् , सुषुप्तत्वान्मदिरामत्तवदित्यादिना प्रतिपादितम् / तथा तथा रूपायमूर्तमूत्योपत्त्या / त्वयैव रूपणाद्रूपमिति च ज्ञानात्मना चैतन्यस्वरूपादनपेता रूपरसादिघटादिसृष्टिश्चानेकधोपपादिता / सा च कल्पनाज्ञानं तन्मात्रमेव सत्यं, न रूपादि किंचित् तदाभासज्ञानबहिर्भूतं स्वमवत् / यथा वो सिंहाद्याभासज्ञानमात्रं न सिंहादिः कश्चिदहिभूतस्तथा जाग्रद्विज्ञानमपि ज्ञानमात्रमेव, ग्रामारामस्त्रीपुरुषादिरूपाद्याकारज्ञानमात्रम् / तद्व्यतिरिक्तार्थशून्यस्वमविज्ञानवद्वेत्येतदापन्नम् / अतः कल्पनाज्ञानमात्र सत्यमिति विज्ञानव्यतिरिक्तार्थः शून्यवादः। विज्ञानमात्रं वास्यापि ग्राह्यग्राहकविकल्पानीतानिविकल्पत्वाश्रयस्य शून्यत्वापत्तेः।। पुरुषवाद्याह-अचिन्त्यमेवेदं चिन्त्यत इत्यादि / मद्वचनापरिज्ञानादसम्बद्धं दूषणम् , मया हि 'पुरुष एवेद'मित्यवधार्योक्तम् , नोक्तमिदमेव पुरुष इति, प्रत्यक्षाः सुप्ताद्यवस्था उद्दिश्येति / अत्र प्रयोगः--ऊर्ध्वमधस्तिर्यक् कचित् तत्त्वैक एक एव व्यवस्थितः पुरुष इति प्रतिज्ञा, अनतिरिक्तपरापराणीयोज्यायोरूपात्मकत्वात् वृक्षवदिति / यथोक्तम्'यसात् परं नापरमस्ति किञ्चित् , यसान्नाणीयो न ज्यायोऽस्ति कश्चित् / वृक्ष इव स्तब्धो दिवि तिष्ठत्येकस्तेनेदं पूर्ण पुरुषेण सर्वम् // __(श्वेताश्व० उ० अ० 3, श्लो० 9) इति / यसादन्यत् परं नास्त्यनन्यद्वैतमेवेत्यर्थः / अथवा यसात् परं प्रधान प्रकृष्टमप्रकृष्टमन्यद्वा नास्ति / ऊधिस्तिर्यक्परापरविभागाभावादविभागात्मना तस्यैवावस्थानात् / नाणीयो न ज्यायोऽस्ति किञ्चिदिति सूक्ष्मस्थूलविभागाभावात् / ताद्रूप्येणाविभक्तस्यापि तस्यैवावस्थानादिति / शेषं गतार्थम् / . तु म ग। 2 °न्यो ग। 3 ऋ००म० 10 सू० 90 (पुरुषसूक्ते)