________________ 206 नयचक्रम् / [विध्युभयारः अथ विध्युभयारस्तृतीयः। कमलदलविपुलनयना, कमलमुखी कमलगर्भसमगौरी / कमले स्थिता भगवती, ददातु श्रुतदेवता सिद्धिम् // इदानीं विध्युभयारावसरः / यद्ययं विधिविधिनयारोक्तो भावो निर्दोषः स्यादरान्तरारम्भोऽनर्थकः स्यात् / स तु सदोष एवेति प्राप्तावसरं तद्दोषमुक्त्वोत्तरत्र विध्युभयारं निर्दिदिक्षुः प्राच्यदोषाभिधानार्थमेव तावदाह अथ किं भवता इत्यादि / अथेत्यधिकारोपन्यासे, अनन्तरोक्तपुरुषादिवाददूषणाधिकारोपन्यासार्थोऽथशब्दः। किंशब्दः प्रश्ने / सामान्येन पुरुपनियतिकालस्वभावभावेष्वनन्तरोक्तेषु प्रतिस्वमात्मनो ग्राहे तथा तथा तेन तेन प्रकारेण पुरुषसुप्तादिचतुरवस्था नियतिरेव, पूर्वपरादिक्रियाक्रियादिनियतावस्थारूपा / काल एव क्रमयोगपद्यभूतभवद्भाविव्यवस्थातत्त्वः, स्वभाव एवात्मप्रविभागमात्रप्रतिविविक्तभवनभेदतत्त्वः,भाव एव स्वत्वास्वत्वाद्यविद्याविकल्पविनिर्मुक्तसत्तामात्रव्याप्यनञ्जनशब्दार्थज्ञानाद्यवस्थाविशेषजगत्तत्त्व इति / या एताः प्रतिस्खं न शेषः / ब्रीह्याङ्करादिषटपटादिवस्तुव्याप्तिवृत्तयोऽवस्थाः। तस्य तस्य पुरुषादिदर्शनस्य व्यापित्वप्रदर्शनार्थमुक्तास्तासु किं पुरुषादितत्त्वमवस्थालक्षणं तस्या न सोऽस्ति तद्व्यतिरिक्तः। तथा रूपादय एव घट इति / उत पुरुषादिलक्षणास्ताः पुरुषायेव सत्यं, न ताः काश्चिदवस्थाः / यथा घट एव रूपादयो न रूपादयो नाम केचिद् घटव्यतिरेकेणेति ? द्वयोर्विकल्पयोरन्यतरोऽवधार्यः। किं चातः-यद्यवस्था स्वात्मेत्यादि, यावत् समुदयमात्रवाद एवायमन्यः / यदि न किञ्चिदस्त्यवस्था स्वात्मैव तल्लक्षणं ता एव सत्याः। न पुरुषायामावस्थाः पुरुषादिस्वरूपाः ता अवस्था न भवन्तीत्येवमभ्युपेतं भवति / ततः पुरुषो नाम न कश्चिञ्चतुरवस्थाव्यतिरिक्त इत्येतदापन्नम् , पुरुषादीति सामान्येनोपक्रम्य पुरुषो नामेति पुरुषस्यैवाभाववचनं विधिविधिनयविकल्पानां पुरुषस्य प्रथमत्वात् तषणेनातिदेक्ष्यमाणत्वात् पुरुषवादे प्रस्तुते / कथं पुरुष एवासन्नित्यापाद्यते ? इति चेत् ; उच्यते-यस्मात् समुदयिमात्रसमुदयाऽभ्युपगमाद् रूपादिसमुदायवत् समुदयमात्रवाद एवायमन्यः / स एवायं बौद्धपरिकल्पितरूपवेदनाविज्ञानसंस्कारसंज्ञास्कन्धसमुदायः पुरुषोऽङ्गुलिमुष्टिवत् / बलाकापतिवत् / अक्षोद्विचक्रपञ्जरोऽणीयोऽक्षपरयुगसमिलादिरथवदिति समुदयवादः। ईपन्मषीम्रक्षितकुकुटवत् / पुरुषप्रत्याख्यानफलोऽन्यवदाभाति सुप्तसुषुप्तजाग्रत्तुरीयावस्थासंज्ञाभेदात् युगपद्धाविरूपादिगुणसमुदायवादतुल्यो युगपदवस्थादि चतुरवस्थासमुदय१ निवक्ता ततः ग। 2 तल्लक्षणम् , तानि च लक्षणं इति घेऽधिकः पाठः /