________________ खभाववादः ] न्यायागमानुसारिण्यलङ्कृतम् / 185 सत्त्वानपोहात / सत्वे तुल्ये काल एव भवनात्मानः पुरुषादय इति न स्वभावाहते सिद्ध्यति / तत्स्वतत्त्वस्य सत्त्वाविनाभावात् / कालोदाहरणं तु कालवादिदूषितपुरुषादिवादानामपि तदूषणेन दुष्यत्वात् / तत्प्रतिपादनवत् प्रतिपाद्यत्वाच्च यथोक्तम्-'समनन्तरानुलोमाः पूर्वविरुद्धा निवृत्तिनिरनुशया' इति / कालवाद्याह-नातुल्यत्वात् सत्त्वस्य कालसत्त्वपुरुषत्वयोरन्योन्येनातुल्यत्वात् / अथ न तुल्यत्वात् कालस्यैवैकस्य व्रीहिवत्तथातथाभवनात् / पुरुषादेश्च पृथक् पृथक् भिन्नभावात्मकभवनात् / यथा व्रीहिरेवैको मूलाङ्कुरादिभावेन भवति तथा काल एव तथातथावर्तनात्मा भवति / व्रीहिवन्मूलाङ्कुरादित्वेन तथा पुरुषादयः भिन्नात्मभवनात् इति / अत्रोच्यते-नन्वेवमपि कालस्यैव नान्यस्येति / कालस्यैव भवनं न पुरुषादेरिति वचनात् सुतरां कालस्यासौ भवनात्मेति स्वभाव एव परिगृहीतो भवति / यथा च त्वयोच्यते 'सत्त्वातुल्यता कालस्यैव ब्रीह्यादिवदवरादिवच पुरुषादीनां भवनम्' इति / तथा च पुरुषादीनां कारणकार्यनियमादपि चैव स्वभावः कालकारणं व्रीह्यादिवत् / कार्य पुरुषादयोऽङ्कुरादिवत् / नियमात्मा स तस्य खभाव इति / स एव स्वभावः परिगृह्यते परैः। सर्वत्र सत्त्वस्य हेतुत्वेन विवक्षितस्य सत्वाविनाभावित्वेन भावानाम् , इह सिद्धस्यैव स्वभेदेऽप्यभेदेन व्यवस्थितस्य सामान्यविशेषव्यवहारप्रसिद्धिभावेनेति विशेषः / कालस्यैव तत्त्वादित्यादि, यावदभावे एवेति चेत् / स्यान्मतं भवतः-'त्रैकाल्यैककूटस्थत्वात् कालस्यैव तत्त्वात् कालवादे कारणं कार्यम्' इति विभागाभावादसौ सामान्यविशेषव्यवहाराभाव एव मिथ्यात्वाचास्य व्यवहारस्थासद्विपयत्वादिति चेत् / एवमपि स एव स्वभावो भवतीति वाक्यशेषः / कालस्यैव हि स खभावो यदसौ भवतीति स्वभावपरिग्रहः / किं चान्यत्-व्यवहारप्रत्याख्याने प्रागभिहितकालास्तित्वानुमानप्रत्याख्यानदोषस्तद्यथा-पूर्वादिव्यवहारलब्धकालाभावश्चैवमपूर्वादित्वान्नियतिवत् / यथा पूर्वापरादिकारणकार्यव्यवहाराभावान्नियतिर्नास्तीत्युच्यते / तथा कालोऽपि तदभावान्नास्तीति प्राप्तम् , यदपि च कालानुमानयुगपदयुगपवृत्त्या घटरूपादीनां ब्रीह्यकुरादीनां चोच्यते तदपि स्वभावानुमानमेव सम्पद्यते यस्माद् युगपदयुगपदित्यादियुगपद्वर्तनात् क्रमवर्तनाच्चातिरिक्तस्य कस्यचिदभावात् काल एवेत्युद्देश्य निर्देशार्थ घटरूपादि ब्रीशङ्करादि चोदाहृतं तस्योद्देश्यस्यानिर्देश्यस्य च भावस्य तेन तेनात्मना भवतो भवनादेव / तुर्विशेषणे च / स्वभावोऽभ्युपगम इति दर्शनार्थम् , अथवा नैतयुक्तिगम्यं स्वभावकारणम् / तथा च दृश्यते तेष्वेव तुल्येषु भूम्यवादिषु हेतुषु भिन्ना१°वन् योज्यते ग। न० च०२४