________________ 184 नयचक्रम् / [विधिविधिनये- अत आह-तथा च खभावे सर्वेत्यादि / यावत् के ते? सर्वभावानां पुरुषादीनां खं खं भवनमात्मा यस्य सोऽयं सर्वस्वभावात्मा तस्मिन् स्वभावे भवति / भवनस्यानुभवितरि कर्तरि स्वतत्रे भवति, भवतेर्वा कर्तरि सति सिद्धे स्वभावे सिद्धस्यासाध्यत्वात् सिद्धौदनवदर्थान्तरनिरपेक्षितरेव वादैः प्रतिपादिते के ते पुरुषादयः ? न ते भवन्तीत्यर्थः / किं तैर्विना स्वभावस्य ? न प्रतिप्राप्तं कार्यम् / स्यान्मतम्-तेषां वो भाव आत्मीयः स्वभाव इति तामपेक्षत इत्येतच्चायुक्तम् / यस्मात् तेषामपि स्वत्वं स्वभावापादितमेव, ते ह्यात्मानः खे तद्भावः स्वत्वं तद्धि तेषां स्वत्वं पुरुषादीनां केनापादितम् ? / स्वात्मभिरेव / यद्येवं स्वः स्वो भावः खभावः परस्परविविक्तः स्वभाव एवेत्यापादितं स्वात्मभिरेव तत् / अन्यथा यदि तदात्मत्वं तेषामात्मभावापादितमेव न स्यात् , ततस्ते त एव न स्युरनात्मत्वाद् घटपटवत् / यथा घटः पटानात्मत्वात् पटो न भवति, पटोऽपि घटानात्मत्वाद् घटो न भवति / एवं पुरुषादयोऽप्यात्मानात्मत्वादात्मानो न स्युन स्युरेव वा अनात्मत्वात् खपुष्पवत् / तस्य स्वभावकारणत्वस्य व्याप्तिप्रदर्शनार्थमाह-एवमेवेत्यादि / इत्थमेवैतत् / अवश्यमत्रैव तत्र तत्र यथा स्वभाववादे स्वभावानतिक्रमात् स्वभाव एवेत्यभिन्नम् / स्वभावव्यतिरिक्तार्थाभावात् / तस्य चाभिन्नत्वात् , तथा तत्र तत्र पुरुषनियतिकालादिवादेऽप्युक्तविधिना पुरुषादिस्वभावानतिक्रमात् सर्वैकत्वमभिन्नं तद्भावत्वादेव वण्यते / ज्ञात्मभवनस्य नियमात्मभवनस्य वर्तनात्मभवनस्यान्यस्य च तस्य तस्य स्वभावादेव वर्णनात् / इतिशब्दो हेत्वर्थे / असादुक्तहेतोः स्वभावः प्रकृतिरशेषस्य योनिर्बीजं प्रभवः कारणमित्यर्थः। किं चान्यत्-पुरुषादीनां च स्वत्व इत्यादिद्रव्यार्थस्य कश्चिदपरित्यज्य वृत्तेर्नयानां पूर्वविरोधित्वादुत्तरानुवृत्तेश्च / कालस्य पुरुषाद्यपरित्यागेन वृत्तिं तावदर्शयति-कालवादे पुरुषादीनां स्वत्वं सत्त्वानपोहात् / कथं सत्त्वमनपोढम् ? / संसायनादित्वाभ्युपगमात् पुरुषत्वम् / तस्मिन्नेव काले नियतेरप्यात्मत्वं सत्त्वानपोहात् / सत्त्वानपोहश्च युगपदयुगपन्नियतार्थाभ्युपगमात् / एवं कालवादे नियतिपुरुषयोः सत्त्वाभ्युपगमः / तथा पुरुषवादे नियतेः कालस्य चात्मत्वं सत्त्वानपोहात् / कथं सत्त्वानपोहः? / मुक्तिक्रमाभ्युपगमात् कालसत्त्वानपोहः / अवस्थानियमाभ्युपगमान्नियतिसत्त्वानपोह इत्यादि / एवं नियतिवादे कालपुरुषयोः स्वत्वमात्मत्वं सत्त्वानपोहात् / कालसत्त्वानपोहोऽनादिमध्यान्तां नियतिमिति कालसत्त्वाभ्युपगमात् तां संप्रपश्यन् सर्वज्ञ इति पुरुषसत्त्वाभ्युपगमात् / एष द्रव्यार्थस्य सर्वत्र सर्वसत्त्वात् स्वभाव इत्युद्राहः कृतो भवति / तत्र १°दन्यो क-ग। 2 य ग /