________________ खभाववादः] न्यायागमानुसारिण्यलङ्कृतम् / 183 सान्मतम्-क्वचिद्विसंवदनदर्शनात् कालज्ञानाप्रामाण्यमिति / एतच्चायुक्तम् , अतिसौक्ष्म्याचास्य तज्ज्ञानाभिमुखानां क्वचिद्वचनविसंवदनमपि प्रणिहितधियामपि पुंसां क्वचित् ज्ञानविसंवादात् कालसौक्ष्म्यं दुरुपलक्ष्यत्वात् / कारणं छद्मस्थानां ज्ञेयानन्त्यादज्ञानबहुत्वात् ज्ञानपरमितत्वाच्च / सर्वस्य सरागस्य ज्ञानादज्ञानं बहुलमिति / तथा च–'केसिं' णिमित्ता नियया भवति / केसिं च णं विप्पडिएति णाणं' अत एव साशङ्कमन्वाहुरन्ये-'न विनिश्चितं प्रसह्य यथा 'कालः पचती'त्यादि' भूतानां वर्तनात्मकात् कालादन्यत्वाभ्युपगतात् अनन्यत्वेन कालवर्तनात्मकत्वेनैव न विनिश्चितम् / तथा प्रजानामन्यत्वे संहरणं सुप्तानां जातानां वा / तदन्यत्वेन निर्देशादविनिश्चितत्वात् साशङ्कमेव भेददर्शनेनानुपात्तेनोक्तत्वात् ये पुनर्विनिश्चितधियेस्त प्रसौवं वदन्ति / तद्यथा-'काल एव हि भूतानि' भूतत्वेन कालस्यैव वर्तनात् 'कालः संहारसंभवौ' / यथोक्तं प्राक् 'रूपादयो न केचित् कालमन्तरेण'इति / भूम्यादित्रीह्यादिवदात्मन्येव संभवसंहारक्रिये इति च बन्धसंसाराविति वचनाच / स्वपन्नपि जागर्ति स एव स्वपिति जागर्ति च / न तु स्वपद्भ्यो जाग्रद्भ्यो वा व्यतिरिक्तः कश्चित् ते वा, ततः स्वप्नभेदक्रमसहवृत्तिमात्रत्वाजाग्रत्स्वपदवस्थायाः सुप्तवृत्त्यानाविभूतात्मनस्तस्यैव कालस्य जाग्रद्वृत्त्याऽभिव्यक्तविक्रमत्वात् / क्वचित् क्रमेण भेदवृत्तिविजृम्भितत्वात् सामान्यवर्तनस्य सुप्तविबुद्धादिखनभेदेष्वव्याघातात् / इति कालकारणवादो विधिविधिविकल्प एव समाप्तः // अथ स्वभाववादः। तद्विकल्प एव स्वभावभावोऽधुना। ननु तैः सर्वैरित्यादि, ज्ञः स्वतत्रश्च पुरुष एव भवतीति / वातव्येऽसत्यपि ज्ञानरूपा रूपक्रियाक्रियादिनियमानियतिरेवेति / सर्वत्र वर्तते प्रभुविभुत्वाभ्यां काल एव भवतीति च / एतैर्वादैननु खभाव एव भवतीति भाव्यते / भवन् भाव्यतेरेव प्रतिपाद्यते / किं कारणम् ? द्रव्यार्थप्रसवायत्पुरुषादयो भवन्ति स तस्य भावस्तत्त्वमात्मीयो भावः स्वभाव इत्यनर्थान्तरम् ,ततश्च तत्र ते भवन्तीति तदात्मनोऽभिसम्बध्यन्ते / पुरुषादीनामात्मानो भवन्ति तैर्भूयते यथास्वमिति भावेन तेषामभिसम्बन्धः / ते भवनस्य कर्तृकमनुभवन्ति ज्ञानस्वातत्र्यनियमवर्तनात्मकं तत्त्वादिति वदद्भिः स स स्वभाव एव परिगृहीतो भवति / एवं च स्वभावपरिग्रहे सति कारणान्तरपरिकल्पना व्यथैति / 1 केषां निमित्ता नियता भवन्ति केषां च विप्रतिपद्यते ज्ञानम् / २च घ।३ दशनामुक-ख / ४०विषया०क-ग। 5 नतस्वः घ।