________________ 182 नयचक्रम् / [विधिविधिनयेवद्भवन्ति / प्रतनुक्रोधमानमायालोभास्त्रिव्येकगव्यूतोच्छ्रितदेहास्तावत्पल्योपमजीविन्यो मिथुनधार्मिकाः प्रजा मण्यङ्गादिकल्पतरुकल्पितोपभोगविधयः / स्वादुसुरभिजला चतुरङ्गुलहरिततृणा निम्नोन्नतवर्जिता सुरभिखादुरसा सुखस्पर्शादिगुणा भूमिरित्यादि / स एष पुनरनुभावः प्रभुविभुत्वाभ्यां काल एव हि प्रभवति विभवति च सर्व भावैभैदानामुपपत्तिस्थितिप्रलयेष्वात्मप्रभेदमात्राणाम् / तथा दुष्पमसुषमायां सुखदुःखसमत्वाद्भूयिष्ठसुखत्वाद्धर्माचारभूयिष्ठत्वाच्च मनुष्यलोकवद्भावभेदाः / दुःषमायामाहारभयमिथुनपरिग्रहसंज्ञाप्राचुर्यादधर्मकर्मोन्मार्गप्रस्थानभूयिष्ठत्वाच तिर्यग्लोकवत् / दुःषमदुःषमायां नरकलोकवद् दुःखैकरसत्वात् / यथा कृतत्रेताद्वापरकलियुगसंज्ञाविभागेषु व्याख्याविकल्पमात्रभेदेषु युगेषु / / किं चान्यत्-एकसमायामपि भावभेदास्तत्प्रभुविभुत्वाभ्यामेव संवत्सरवर्तनात्। सुभिक्षदुर्भिक्षादिभावभेदाः,एवमुत्तानार्थी भावभेदा नेयाः। यावदेकमुहूर्तेऽपि लग्नवर्तनात् / नालिकालवादिभेदेन च भावभेदा नेयाः, यावत् परमनिरुद्धसमयवतनेऽन्यस्मिन् यथास्मिन्निति / एकस्मिन्नपि काले उत्पातादिवर्तनाद्भावभेदव्यभिचार इति चेत् / न, कालदोषाभावात् / उत्पातोपघातस्यापि कालकृतत्वात् / कस्यचिद्भावस्य व्यक्त्युपघातात् कालेऽपि शुनो मैथुनाभाववत् / तस्य व्याधिकालमरणकालादीनां तथाभावात् / तस्मादेवावलिकादिस्वरूपवर्तनाभेदादेव मुहूर्तजातानामपि पुरुषाणां तन्मात्रभेदप्रभेदखामिभृत्यादि, कश्चित् स्वामी कश्चिमृत्यो भवतीति जन्मकालभेदात् भावभेदा अनुमातव्या धूमादग्निवत् / आदिग्रहणात् सुरूपकुरूपसुभगदुर्भगप्राज्ञाप्राज्ञादिभावभेदाः / तस्यैव च व्यापित्वात् / चशब्दात् प्रभविष्णुत्वाच्च / एवं हि कालकारणस्य प्रभुता व्यापिता च / यत एतद्वर्तनावर्तविपरिवर्तभेदप्रभेदास्तथा तथा युगपदेव पश्यतां विश्वदृश्वनामर्हतां प्रवचने कालज्ञानमवितथं प्रमाणीभूतं तद्विषयं दृश्यतेऽद्यतनेऽपि केषुचित् पुरुषेषु / कलिबलमलीमसप्रज्ञेष्वपि / 1 अरएसु वि एएसुं तीसुं जुयलाई हुँति लोयाणं / दसविहकप्पदुमकयसमत्थभोगप्पसिद्धा उ॥१८॥ मत्तंगया य 1 भिंगा 2 तुडियंगा 3 दीव 4 जोइ 5 चित्तंगा 6 / चित्तरसा 7 मणियंगा 8 गेहागारा 9 अणिगिणा 10 य // 19 // मत्तंगेसु य मजं 1 सुहपिजं भायणाणि भिंगेसु / तुडियंगेसु य तुडियाई हुंति बहुप्पयाराई 3 // 20 // दीवसिहा 4 जोइसनामगा य एए करेंति उज्जोयं 5 चित्तंगेसु य मलं 6 चित्तरसा भोयणट्ठाए 7 // 21 // मणियंगेसु य भूसणवराई 8 भवणाई भवणरुक्खेसु 9 / तह अणिइणेसु धणियं वत्थाई बहुप्पयाराई 10 // 22 ॥-विचारसारे पृ. 33 २°नन्थया घ। 3 प्रभवात् घ।