________________ कालबादः] न्यायागमानुसारिण्यलकृतम् / 181 परस्परसंश्लेषवर्तनेभ्य इव भूम्यादित्रीह्यादीनां हेतुभ्यः स्वत एव बन्धक्रिया संसारक्रिया च वर्तनाभेदेन रूपभेदेन चेति दृष्टान्तप्रसिद्धार्थव्याख्यानम् / दाष्टोंन्तिकव्याख्यानं तु कालस्यात्मस्वात्मन्येव क्रिया अनात्मस्वात्मनि चेति / कालस्थाभिन्नवर्तनवतत्त्वस्य भूम्यादिव्रीह्यादिवच्च संसरणवदेवात्मस्वात्मनि जीवस्वरूपे किया अनात्मस्वात्मनि पुद्गलस्वरूपे वा युगपदेव बन्धसंसरणविहिता कालकृतबन्धसंसारविहिततत्कृता विधातुरन्यस्याभावात् सैषा संसारता युगपदभिन्नाऽनादिवृत्त्यात्मिका जीवपुद्गलयोः परस्परं स्वात्मपरात्मवृत्तिकृतबन्धसंसारानादिता न न युज्यते / विरोधाभावादित्यभिप्रायः / एवं तावद्यौगपद्यलिङ्गकालकृतसंसारानादिता / पूर्वापरादिलिङ्गकालकृतसंसारानादिताऽप्यस्मिन् दर्शने न, विरुद्ध्यत एवेति / अत आह-इत्यादिना वर्तनाप्रभेदेनेत्यादि, इतिशब्दार्थ इत्थमर्थे / इत्थमुपपादिता अनादिताया एव वर्तनायाः प्रभेदास्ते पूर्वापरादिक्रमात् / त एव भवान्तराणि क्रमेण प्राप्तानि / कानि तानीति चेत् ? भूम्यम्ब्वादियोगः बीजो दः मूलमङ्कुरा इत्यादि गतार्थम् / यावत् कुरुकतन्दुलोदन इति / ओदनादप्यभ्यवहृताद्रसादि, यावत् कडेवरं, कडेवरात् , मृत् , मृदो मृत्पिण्डः / मृत्पिण्डकाच्छिवकः / पुनयोवभूम्यादित्वेन परमाणुव्यणुकादिसङ्घाताः / जीवपुद्गलवृत्तिपरिवर्तिभेदेन वर्तनेनैवारभते प्रवर्तते नितिष्ठतीत्यारम्भप्रवृत्तिनिष्ठः / पुनर्विपरिणामोऽन्यरूपेणाविर्भावः स आरम्भः / प्रवर्तनं स्थितिनिष्ठा तिरोधानमित्येतदनुपरतधर्मत्रयचक्रकमयुगपद्वृत्तावपि युगपद्वृत्तावपि पूर्वाभिहितबन्धसंसरणवदुत्पत्तिस्थितिभङ्गा अपि वर्तनस्वात्मैव / तदेव हि वर्तनं परिवृत्त्यपरिवृत्तिष्वित्यविरोधं कालकारणवादस्य दर्शयति-तत्प्रसिद्धिप्रदर्शनार्थमाह-ननु कृषीवलादिभिरपि पर्युपास्यत इति, किं पुनर्विद्वद्भिरित्यर्थः। तथा तथा यथा यथासौ कालो व्यवतिष्ठते तथा तथा पुरुषः पर्युपास्ते / आविर्भूतश्ताङ्कुरकालो न तावदाविर्भूत इत्याविभूतानाविभूतात्मा / तस्मादेव चेत्यादि / तस्मादेव च वर्तनालक्षणात् कालादवगमितद्रव्यक्षेत्रभावा आत्मानोऽस्य तस्मादवगमितद्रव्यक्षेत्रभावात्मनः। अवगमितद्रव्यक्षेत्रभावात्मकादित्यर्थः / प्राग निमित्तं द्रव्यं भूम्यादिव्रीह्यादिद्रव्यात्मा काल इति / घटो ग्रीवादय इति / क्षेत्रं भावो रूपादयः / न केचिद्युगपदात्मिकां वृत्तिप्रख्याति कालमन्तरेणेति / कालत्वावगमनं वर्तत एव / तस्माद्रव्याद्यात्मकात् कालात् सुषमसुषमादिभ्य उत्सर्पिण्यवसर्पिण्याख्यकालभेदेभ्यः परमनिरुद्धसमयत्वेनाभिनादपि सुषमादिभेदात्मकाद्भावभेदाः सम्भवन्ति / तद्यथा-सुषमसुषमायां सुषमायां सुषमदुःषमायां चात्रैव भारते क्षेत्रे देवलोक१ सुषमसुषमायां त्रिकोशोच्चाः त्रिपल्योपमायुषः, सुषमायां द्विगव्यूत्युन्नताः पल्यद्वयायुषः, सुषमदुःषमायां गव्यूतोचाः पल्योपमायुषो युगलिनः।