________________ 180 नयचक्रम्। [विधिविधिनयेबन्धप्रक्रियोपपत्तेः संसारानादिता सन्तानाव्यवच्छेदाद् वा युज्यते पुरुषवादिनः / पुनः परमात्मनः शुद्धात् कूटस्थादिनित्यात् कार्यकारणे द्वे अपि व्यतीतान्न युज्यते संसारो बन्धाभावात् / बन्धाभावः कारणाभावात् अशरीरत्वात् अकरणत्वाच / चशब्दात् सर्वगतत्वादेकत्वान्नित्यत्वाच्चेत्यादयोऽपि हेतवः प्रदोषादिकारणाभावात् , प्रदोषाभावात् कर्माभाव इत्यादि गतार्थम् / यावत् संसारानादिता। __ अत्राह नियतिवादी-तस्य संसारस्यैव तथानियतेः संसारो भवति पुरुषपुद्गलयोः इति / अत्र ब्रूमो-नाऽपि तस्य नियतेः संसारानादिता / कस्माद्धेतोः ? अतत्त्वात् / तद्भावस्तत्त्वम् , न तत्त्वमतत्त्वं तसादतत्त्वात् तत् नियतिनं भवति संसारः / अतत्त्वं चास्य न भवति संसारस्य / क्वचिदुपरमाभ्युपगमात् / स्वहेतोः साध्याविनाभावित्वोपप्रदर्शनार्थमाह-यद्यत् तत्तत् न तन्नियतिर्दृष्टम् / यथा-घटः पटनियतिर्न भवति / पटोऽपि घटनियतिर्न भवति, तस्माद् घटवत् पटवदतत्त्वान्नापि तस्य नियतेरिति साधूक्तम् / किं चान्यत्-एवमेव तस्य स्वभावात् / यदि ब्रूयात् तस्य स्वभावात् संसारानादितेत्येतच नापि तस्य स्वभावात् / अतत्त्वात् तत्त्वमस्य पूर्ववन्मुक्त्यवस्थाभ्युपगमात् सिद्धम् / यद्यदेतत् तत् तत्स्वभावं घटपटवदिति / एवं तावदनादिसंसारता नोपपद्यते नियत्यादिवादे कालमन्तरेणेत्युक्तम् / __ इदानीं कालवादे तदुपपत्तिरुपवण्यते-तस्मात् त्वनादिवर्तमानात्मकत्वादित्यादि यावन्न न युज्यत इति / तस्मादिति प्रस्तुतात् कालात् संसारानादिता न न युज्यते इति संभंत्स्यते / तुशब्दो विशेषणे / कालवाद एवैतदुपपद्यतेऽनादिसंसारित्वयौगपद्यपर्यायत्वात् , अनादित्वस्य यौगपद्यस्य च कालप्रभाविनाभावित्वात् , कलनवृत्तिपर्यायत्वाच्च कालस्येति / __ तत्प्रदर्शनार्थ हेतुमाह-अनादिवर्तनात्मकत्वात् कालस्य / कालो हि युगपदनादिवृत्त्यात्मकः।नन्विदं प्रागुक्तेन विरुद्धं पूर्वापरादिवृत्तेरयोगपद्यादिति चेत् , न वर्तनस्य योगपद्यात् / तद्यथा पृथिव्यादि-व्रीह्यादि-वृत्तीत्यादिदृष्टान्तदण्डकाः / यथा पृथिव्यम्बुवाय्वाकाशपुरुषादयो युगपत् समेता लोकाख्यां लभमाना अनादयस्त एव च ब्रीहियवगोधूमचूतपनसादित्वेन स्त्रीपुरुषमहिषाजगवयगवादित्वेन च वर्तते / सहैव भूम्यादिव्रीह्यादित्वेन तादृश्योवृत्तिविवृत्त्योरव्यवच्छेदेन स्वत एवात्मविषयोऽस्याः क्रियायाः सा तेषां त्रीह्यादिभूम्यादीनां वृत्तिविवृत्तिप्रबन्धेनात्मस्वरूपविषया क्रिया सैव च बन्धः / स्निग्धरुक्षवृत्त्या तेषां संश्लेषादन्यान्यरूपापत्तिः संसरणं तच्चानादियुगपदुभयवन्धनात् संसरणं दृष्टं, तथा जीवपुद्गलयोरभिन्नवर्तनवतत्त्वयोः स्वसाध्येभ्य एवं साधनात्मभ्यः हेतुकार्यभूतेभ्यः कारणेभ्यः १°वो घ। 2 क्रमतोऽपि घ / 3 "न्यतेतत्व क / तेभ्यत घ। 4 त्याख्ययदेव ग /