________________ 179 कालपादः] न्यायागमानुसारिण्यलङ्कृतम् / वर्तमानश्चाभेदेन गृह्यमाणो दृष्टस्तसादभिन्नः / एवं ज्ञानेनैक्यमापाद्य क्रिययाप्यैक्यमापादयत्यतिदेशेन-ग्रहणवच्च स एव क्रियते / किं कारणम् ? तथावृत्तेः / एवं हि वर्तनं सैव हि क्रिया यथा गृह्यते तथा क्रियतेऽप्यसावेवाभेदेनेति तत्कारणकार्ये दर्शयति-क्रियया कल्पत इति / एवं तावदतीतवर्तमानयोः कारणयोः कार्याख्याभिमुख्येन ग्रहणकरणाभ्यां ऐक्यम् , नोमाख्या शब्दः, शब्दमात्रेणैव भेदात्तयोरप्यनागते। तयोः कारणयोरप्यनागते कार्ये अतीतवर्तमानयोः कारणाख्याभिमुख्येन कार्याख्याभिमुख्यकारणैक्यवद्हकरणयोः समाना कल्प्यमानता दृश्यते / ततोऽप्यैक्यमेव / तद्यथा-संयोगतन्त्वाचुदकगर्भसर्जनपाचनादिवर्तनपटत्ववत् / यथा तन्तूनां संयोगं दृष्ट्वा रुत-कास-प्रलहीपोण्डप्रलहीमूलाङ्कुरादिजलसर्जनपाचनधारणमेघकलनानि वृत्तानि / तथा च क्रियन्त इति तान्येव वर्तनानि पट इत्येष्यत्पट एव / तथा तन्तुवायस्य ग्रहणकरणाभ्यां प्रवृत्तत्वात् वर्तमानातीतपटता दृष्टेत्यैक्यमेव / अत एव चेत्यादि / एतस्मादेव कारणाद्वर्तनस्याप्रतिघाताद् व्यापित्वाच करणान्तरापेक्षा नास्ति / कलनमेव ह्येकमनन्यसाधनम् / स्वयमेव कार्यकारणवृत्तित्वेन विपरिवर्तितुं क्षममपुरुषकारं चेतनाचेतनेषु वृत्तेरभेदादस्वभावं जीवाजीवात्मकपरिणतिक्रमविवृत्त्यजस्रत्वात् / अनियततथान्यथाभावविपरिवर्तनात्मकत्वादेव संसाराभिरूपयणुकन्यणुकादिभूम्यम्बुव्रीह्याद्याहाररसरुधिरादिविपरिवर्तनस्य भावान्तरसंक्रमणलक्षणत्वात् संसारस्य / अत एवानादि, अनादित्वेन दूरमपक्षिप्ता नियत्यादिकारणान्तरापेक्षाऽनेनाकलनेन तस्मादनादित्वात् कालवृत्तिः, अस्या एव कालवृत्तेरेव केवलायाः कारणान्तरनिरपेक्षाया हेतोः यदप्युच्यते पुरुषवादिना पुरुषक्रियात एव सर्वमिति / तदसादेव कालाद्भवति न तु पुरुषकारात् / अनादीनां योगपद्यादिमतां पौर्वापर्ययुक्तवृत्तित्वात् , तयोश्च कालत्वात् किल तेनैव पुरुषवादिना कालस्य समर्थितत्वादिति / अत आह-पुरुषवाद्युक्तमुक्तिक्रमार्थतुरीयवचनादेव सुषुप्तावस्था विशुद्ध्यन्ती सुप्तावस्था भवति, सुप्तावस्था च जाग्रदवस्था भवति / जाग्रदवस्था विशुद्धा सती तुरीया मुक्त्यवस्था भवतीति कालसामर्थ्यात् क्रमात्मलाभो घटते / तस्मात् सुषुप्तादेवस्थाविशेषाव्यवस्थानस्यानादिकालप्रवृत्त्यात्मकत्वं परमात्मनो वर्तनतत्त्वं स्यात् / अस्सन्मत एवमेव घटते न पुरुषवादे क्रमाक्रमविकल्पाभावात् / अन्यथा व्यवस्थाचतुष्टयस्यैकसर्वगतनित्याक्रमकारणात्मकस्य कतमावस्था प्रथमा द्वितीया तृतीया तुरीया वेति / किं चान्यत्-वृत्तिक्रमापादितकार्यकारणावस्थयोः कार्यकारणभावोपपत्तेमिथ्यादर्शनादिभिः सामान्यहेतुभिस्तत्प्रदोषनिह्नवादिभिश्च विशेषहेतुभिः कर्म 1 करकार्थ घ / 2 मा क-ख / 3 °गो दृष्टो ग / 4 का ग / 5 °ना कालाभजन ग। 6 सुतासुप्ता ग।