________________ नयचक्रम् / [विधिविधिनये"जं जं जे जे भावे परिणमति पयोगवीससादव्वं / ___ तं तह जाणाति जिणो अपजवे जाणणा नत्थिं // " (आ०नि गा०२६६७) इत्येतद्वर्तमानस्वतत्त्वकालनिरूपणम् / स तथेत्यादि स एव कालस्तथाभूतेन वर्तमानरूपेण कलनार्थेन सामानाधिकरण्येन तां वर्तमानामेव सामान्यमभिन्नामत्यजन्नभूतो भवति भविष्यंश्चेति विशेषव्यपदेशं लभते,नान्यः कश्चिदकलनात्मकपदार्थो नियत्यादिरसत्त्वात् / स एव कलनलक्षणो भावस्त्रिधा भिद्यते। तत्समानाधिकरणत्वात्। सत्त्वात्मकत्वाद् घटवत् / न व्यधिकरणो भूतो भवति भविष्यंश्चाकाल एव व्यधिकरणोऽसद्रूप एव / किं कारणम् ? अन्यथाऽन्यस्याभावात् / इह ह्यन्यथा न भवति, यथा कुसुमं खपुष्पं न भवति / खपुष्पं वा कुसुमं न भवति / घटो वा पटतया न भवति / पटो वा घटतया न भवति / किं तर्हि ? तदेव तद्भवति / कुसुममेव कुसुमम् , तदेव चान्यथापि भवति, यथा कुसुममेव मुकुलिता विकसितसमस्तविकसितजरन्ताम्लादिना / एवं तावत् काल एव भाव इत्यभेदेन भवनं व्याख्यातम् / कारणभेदेनापि स एव तथा कलयन् वर्तनेन कल्पत इति / कल्पनस्य कर्तृत्वमनुभवतीति कलनं भवतीत्यर्थः / स एव कल्पते क्रियते कर्म भवतीत्यर्थः / पूर्वापरतया कार्यकारणभावात् / तेन च तस्य चेत्यादिना तस्यैव कलनस्य शक्तिभेदात् तेन क्रियत इति करणता, तस्मै क्रियत इति सम्प्रदानता / ग्रहणात् तस्मात् तसिन्नित्यपादानाधिकरणते वापि तस्यैव / इदानीं कालस्य त्रिधा भिन्नस्याप्यभेदोपदर्शनार्थ ज्ञानेन क्रियया चैक्यमुच्यते-एवमेव चेत्यादि, ज्ञानेन तावदेकत्वं दृश्यते / यावदेकत्र मेघादिरिति / एवमेवेति / यथैव कर्तृकर्मकरणादिशक्तिभेदेऽप्यभिन्नः कालः / तथा स वर्तमानातीतयोः कारणावस्थयोः। एवं सप्तम्यन्तोऽयं निर्देशः। कार्यस्याभिमुख्येन गृह्यते / कार्याङ्गीकरणेन तत्प्राधान्येन तदात्मनेति यावत् / वर्तमानावस्थायां कार्यस्याभिमुख्येनातीतावस्थायां चोत्तरावस्थाभिमुख्येन स एव कालो गृह्यते / किमुक्तं भवति ? कल्पते ज्ञायते / यथासंख्यमेकत्र पटादिरेकर मेघादिः वर्तमाने पटादिरतीते मेघादिः / तद्यथा-पुरुषो हि पूर्वाह्ने पटं पश्यन्नपराह्नेऽपि पट एवायम् ,श्वोऽप्यपरेधुरुत्तरेधुरपि वा पट एवेति, वर्तमानकालेऽपि पटमेष्यत्कालेऽपि पटमेव मन्यते / मेघे चोन्नतमात्रे वर्षति पयः / ततः प्रलही बीजमुत्पद्यते / मूलाङ्कुरादि भवति / ततः प्रलही पोण्ड, ततः कासः / ततः सूत्रं / ततः पट इत्यतीतकाल एवैष्यत्कालं पटं मन्यत इत्यतः कार्याख्याभिमुख्येन स एव कालोऽतीतो 1 यद् यद् यान् यान् भावान् परिणमते प्रयोगविस्रसाद्रव्यम् / तत् तथा जानाति जिनोऽपर्यवे परिज्ञा नास्ति // 2 °पर्युषो ग / 3 °कुसुमं ग। 4 कपात ग। 5 न्यवेशः ग। 6 तादात्म्ये घ। 7 °यं ग / वर्षत्ययं घ /