________________ कालवादः] न्यायागमानुसारिण्यलङ्कृतम् / 177 विग्रहआसनयानादिगुणानुष्ठानमित्यादि / निष्क्रमणमित्यादि, यावद् यतीनां निष्क्रमणकालादारभ्य यावद्विमोक्षं, विमोक्षणस्यात्मकर्मवियोगफलस्य मोक्षस्य कालो यतीनां निष्क्रमणादेः काल इति / यथोक्तम्-"अपणो निक्खमणकालं आभोएत्ता चइत्ता रजं" ( कल्पसूत्रे ) इत्यादि / तथा दण्डकपाटरुचकमन्थानलोकपूरणक्रियाभिः तत्काले कर्मत्रिकस्याऽऽयुषा समीकरणमित्यादि / अनियतचेतनाचेतनत्वेत्यादि, यावत् कलनं कालस्वरूपतादात्मकत्वभावेनैव वर्तते / अनियतं चैतन्यमुपयोगरूपादित्वेन, रूपे चेतनाया उपयुक्तत्वात् / अचेतनत्वेनाप्यनियतं चैतन्योपयोगापत्त्योपयुक्तत्वात् / अथवा तृणादेर्गवाद्यभ्यवहृतस्य सुखदुःखादिचैतन्यापत्तेर्द्रव्यस्य प्राणाद्यापत्तेर्द्रव्यप्राणातिपातादिभावः। कालक्रमागतपरिणतिवशात् उपशमक्षयक्षयोपशमोदयपरिणामभावैश्च जीवपुद्गलयोरनाद्यनन्तशो वर्तनात् / न केवलं चेतनाचेतनयोः परस्पररूपापत्तिः, वृत्तैव वृत्तिः। किं तर्हि ? अचेतनस्यापि पृथिव्यादित्वेनापि तथा, तद्यथैकजातित्वात् पुद्गलानां पृथिव्युदकज्वलनपवनवनस्पत्यादित्वेन विपरिवर्तमानपरिणतीनां अनाद्यनन्तश एवं वृत्तिर्वर्तनम्। तस्यात्मा स्वं तत्त्वं येषां परमाणूनां ते परमाणवस्तेषामनाद्यनन्तवर्तनात्मस्वतत्त्वानां वृत्तेः कलनात्मक रूपं भूयो भूयो विपरिवर्ततेऽभ्यावर्तते / रूपरसादिभेदः परिवर्तते / तद्गुणभेदेनाप्येकद्वित्रिसंख्येयानन्तगुणभागहीनवृद्ध्या कृष्णशुक्लत्वादिना वाभ्यावृत्तिरेकांशस्यापि परमसूक्ष्मरूपादिभावपरमाणोरप्यनाद्यनन्तशोऽभ्यावृत्तिरतस्तदतीतानागतवर्तमानात्मकमेकं 'कूटस्थमविचाल्यमनपायोपजनविकार्यनुत्पत्त्यवृद्ध्यव्यययोगि' (पा. म.भा. पृ.५९) इत्यादि / आदिग्रहणाद् ध्रुवादिसर्वानित्यलक्षणमेतदेव कलनात्मकषट्कारणमुपपद्यते। नाणुपुरुषनियत्यादिनित्यत्वं पूर्वापरीभूतभावात्मकविपरिवर्तकलनस्यादिमध्यावसानादर्शनादेवं लक्षणस्य नित्यत्वस्य तस्माद्विश्वविकल्पविवर्तवर्तनायाः कलनं काल इत्यभिसम्भत्स्यते / तच्च कलनं द्विविधममदाद्यसर्वज्ञं प्रत्यनुमानमात्रगम्यमविविक्तम् / सर्ववस्तुसामान्यमात्रग्रहणममितपूर्णकोष्ठागारधान्यकलनवत् / यथा धान्यममितकोष्ठागारे पूरितं कुम्भशतसहस्राद्यन्यतमपरिमाणमित्युद्देशतो गृह्यते / तथोद्देशमात्रतोऽतीतानागतवर्तमानवर्तनाकलनममदादिभिः, सर्वज्ञं प्रति परमनिरुद्धे काले समये समये वृत्ताया विविक्ताया वर्तनायाः संख्यानं कलनं तत् कालः। 'कल संख्याने' इति प्रतीतेः यथोक्तम् 1 आत्मनो निष्क्रमणकालं ज्ञानेनावलोक्य, त्यक्त्वा राज्यम् / 2 एतेषां स्वरूपजिज्ञासुभिर्विलो. कनीया आवश्यक-तत्त्वार्थाधिगम-स्थानाङ्गसूत्रसप्तमस्थान-विवाहप्रज्ञप्ति(भगवती)-प्रज्ञापनोपाङ्गप्रशमरतिप्रभृतयो ग्रन्थाः / 3 सातावेदनीयनामगोत्रसंज्ञस्य / न०च० 23