________________ नयचक्रम् / [विधिविधिनयेरिति ब्रुवता स एव काल इत्युक्तं भवति / कालक्रिययोरनन्तरत्वात् कालनियतिः क्रियानियतिरिति संज्ञामात्रे विसंवादात् पूर्ववदिति / किं चान्यत्--नियतिप्रतिपादनपरिक्लेशाभ्युपगमाच नावश्यंभावाव्यभिचारदर्शनविपर्ययार्थप्रवृत्तरभ्युपगमविरोधः / पुरुषकालस्वभावादिदर्शनानां नियत्यैवाव्यभिचारिण्या तदविनाभाविनामव्यभिचारादिव त्वयाभ्युपगतानां परवादिभिश्च स एवेत्यभ्युपगतानां त्वया पुनस्तद्विपर्ययो नियतिरेव कारणं न कालादय इति प्रतिपादनार्थ प्रवृत्तिरङ्गीकृता / यदि तानि दर्शनान्यनया त्वदीयया प्रवृत्त्याऽपनीयन्ते / नावश्यंभावीनि तानि / अथावश्यं भावीन्येव नापनीयन्तेऽनयापि प्रवृत्त्या ततो नियत्यर्थपरदर्शनविपर्ययमापादयामीत्ययमभ्युपगमो निवर्तत इत्युभयथाभ्युपगमविरोधः / स्ववचनपक्षधर्मत्वादीनां वृत्त्यैव निराकरणं येयं पक्षहेतुदृष्टान्ताद्यवयवोच्चारणे प्रवृत्तिस्तया स्वबन्धनं परमतनिराकरणसमर्थमिति मतं प्रवृत्त्युपलभ्यं स्वत एव नावश्यं भवतीति क्रियते / अथावश्यं स्वत एव भवति / प्रवृत्तिरनर्थिका। प्रतिपादनासमर्थवचनिका, प्रवृत्तिवचनयोरनियतार्थत्वात् , हेतुः पक्षधर्मों हेयार्थप्रतिपत्तिनियतोऽवश्यंभावी प्रवृत्तिमन्तरेण चेत् प्रवृत्तिरनर्थका, नावश्यंभावी चेन्नित्यभावः / एवं दृष्टान्तोऽपीति व्याख्येयम् / इति प्रवृत्त्यैवाभ्युपगतया वचनहेतुदृष्टान्तानां निराकरणं प्रमाणान्तरमन्तरेणापीति / कथं पुनराचारोपदेशानर्थक्यदोषाभावः? लोकागमादिविरोधाभावश्चेत्येतत् प्रतिपादनार्थमाहअत इत्यादि / अतः-प्रागभिहितकालकार्यत्वहेतोः सर्वलोकशास्त्रारम्भप्रयोजनाभिधानानां सर्वशास्त्रार्थत्वे येयं पुनर्भावनोच्यते / धर्मार्थकाममोक्षाः कालकृताः / एवं चतुर्थवर्गसाध्यसाधनसम्बन्धार्थः / सर्वशास्त्रारम्भाः कालसामर्थ्यादेव सफला नान्यथेति प्रतिपद्यस्व / कथम् ? उक्तभावनावत् / उक्ता भावना रूपादिघटादियुगपद्वृत्त्यात्मककालरूपं बीजाङ्कुरादिपूर्वोत्तरक्रमवृत्त्यात्मककालरूपं च जगदनियतपरिणतं चेति / तस्मादुक्तभावनावदनियतेधर्माद्यर्थानामाचाराणां पूर्वापरीभूतक्रियात्वात् , क्रियार्थत्वाच्चोपदेशानां कालस्य च पूर्वोपरीभूतस्य क्रियात्वात् सार्वक्ष्याः शास्त्रारम्भाः। तथा ब्राह्मणेत्यादि / एवं च कृत्वा कालकृतत्वात् क्रियाक्रियाफलानां धर्मार्थकाममोक्षार्थैः शास्त्रैरेव विहिताः क्रियास्तद्यथा यथाक्रमं धर्मादिषु ब्राह्मणस्य वसन्तेऽन्याधानं 'वसन्ते ब्राह्मणो यजेत / ग्रीष्मे राजन्यः / शरदि वा यजेत वैश्यः' इत्यादिवचनात् / तथा वणिजां मद्यस्यापानमिति वर्तते / ईश्वराणां क्रीडादीनाम् ,उद्यानगमनम् / वासन्तिकवस्त्रालङ्कारमाल्यगन्धभोजनादिसेवनं रमणमित्यादीनाम् , आदिग्रहणात् सन्धि 1 अतः घ। इतः क-ख। 2 वेक-ख / वि घ।