________________ कालवादः ] . न्यायागमानुसारिण्यलकृतम् / 175 चेदभिमतेन सिद्धत्वात् पुरुषाकारादृते यो ब्रूयाचक्षुषा रूपं पश्य मा द्राक्षीर्जिह्वयेति / किं तेन कृतं स्यात् ? / तथा नियत्या सिद्ध्यत्स्वसिद्ध्यत्सुवा किं यत्नोपदेशाभ्याम् ? किं कारणम् ? अयत्नत एव तथासिद्धेः, ओदनकवलाद्यास्यप्रवेशोऽपि प्रक्षेपयत्नादृते त्वन्मतेन सिध्येत् / अप्रक्षिप्ते कवले क्षुत्प्रतीकारः स्यादित्यादि योज्यम् / यत्नोऽपि नियतित एवेति चेत् / स्यान्मतम्-योऽप्यसौ यत्नो नियतित एव / एषोऽपि आचारोपदेशरूपस्तृप्तिप्रयोजनौदनपचनास्यप्रक्षेपादिरूपश्च तथातथानियतित्वादित्येवं चेन्मन्यसे, ततः सर्वलोकशास्त्रारम्भप्रयोजनाभिधानानर्थक्याल्लोकागमविरोधौ, यथासङ्ख्यं लोकविरोधः आगमविरोधश्च / सर्वलोकस्य सर्वशास्त्राणां चारम्भप्रयोजनयोस्तदभिधानस्य चानर्थक्यम् / बुभुक्षाप्रतिकारप्रयोजन ओदनपाकारम्भः। सह प्रयोजनेन तृप्त्यादिना तदुपदेशवचनारम्भप्रयोजनानि चानर्थकानि लोके / शास्त्रेषु च धर्मार्थकाममोक्षास्तदर्थाश्च शास्त्रारम्भास्तदुपदेशाश्वानर्थकाः प्राप्नुवन्ति / किं कारणम् ? भावस्यान्यथाभावाभावात् / यस्मान्न तेनैव भाविनोऽभावः, अभाविनश्च न भावः। तस्माद्भावस्यान्यथाभावाभावात् सर्वलोकशास्त्रारम्भप्रयोजनाभिधानानर्थक्यम् , तस्साच लोकागमविरोधौ / लोके सर्वागमेषु चारम्भप्रयोजनाभिधानानां प्रसिद्धत्वात् / किं चान्यत्-क्रियाया एवौदनतृप्त्यादिफलप्रसूतेः प्रत्यक्षविरोधः / क्रियात एवोदनसिद्धिनौंदासिन्येनासितुः कदाचिनियतेरेव केवलायाः। सिद्धस्य चौदनस्य फलं तृप्तिः, सापि मुखे कवलप्रक्षेपासनादिक्रियात एव भवन्ती दृष्टा / ओदनजन्यतृप्तिबलवर्णारोग्यादिफलं चान्तर्गतात्मरसरुधिरादिविभागपरिणामनक्रियातः। तस्याश्च क्रियाप्रसाध्यतृप्त्यादिहेत्वोदनसिद्धौदनजन्यतृप्तिबलवर्णारोग्यादिफलप्रसूतेः प्रत्यक्षत्वान्नियतित एवेति वादे प्रत्यक्षविरोधः / एवं नियतेरेवैवमिति चेत् / एवंविधैवैषा नियतिः क्रियानियतिरित्युच्यते / अस्याः क्रियानियतेरोदनातृप्त्यादिफलप्रसूतिनियतिरित्येतचायुक्तम् / कालानर्थान्तरे क्रियाया एवैवं क्रियानियतिरिति संज्ञामात्रे विसंवादात् / अभ्युपगतं तावत् त्वया एवं नियतेरेवैवमिति ब्रुवता काष्ठादिसाधनसन्दर्भया लौकिक्या पचिक्रिययैवौदनसिद्धितृप्त्यादिफलप्रसूतिनियतिरिति / एवंशब्दस्य तदर्थत्वात् / सा च क्रियानियतिः कालक्रियापर्यायत्वात् कालनियतिः। नियतेः क्रियायाश्चैकार्थत्वात् / तस्मादावयोः संज्ञामात्रे विप्रतिपत्तिनार्थे / अत्राह-एवमपि क्रियासिद्धौ कालासिद्धिरिति / अत्रोच्यते-तेन कालानर्थान्तरत्वात् क्रियायाः क्रियाकाल इत्यनान्तरम् / कालेनैव क्रियाख्येनैव नियति च° क-ख। 2 °तः घ /