________________ नयचक्रम् / [विधिविधिनयेकारणान्तरमप्याह-सर्वेषां तेषां बीजादौ नियतेः सन्निहितत्वात् / बीजे मूलाङ्करपत्रनालादीनां नियतेः सन्निहितत्वात् / शुक्रशोणितावस्थायामेव कललार्बुदगर्भार्भकादीनां नियतेः सन्निहितत्वात् पूर्वादिक्रमवृत्तिता युगपद्वृत्तिता वेति न युज्यते, नियतेरेवेति चेत्, न / आनर्थक्यात् / / __ स्यान्मतम्-एतदपि नियतेरेव युगपद्वर्तनं पूर्वादिक्रमवर्तनं चेत्यादि / एवकारात् कालादिनिराकरणं वेत्येतच्चायुक्तं नैरर्थक्यात् / नियतेः पूर्वादीनां वा नैरर्थक्यात् / यदि नियतिरेव कारणं पूर्व पश्चादिदानीं युगपदित्यादिकालवाचिशब्दोपादानं तदर्थाश्रयणं चानर्थकम् / तदर्थाभावे सति नियत्यैव कृतप्रयोजनत्वात् तदुपादाने वा नियत्यानर्थक्यम् / इहै तु नियत्यानर्थक्यमेवेति मन्यस्व कालं प्रत्येकार्थव्यापारार्थानां पूर्वादीनामवश्याभ्युपगम्यत्वात् तैरेव कृतप्रयोजनत्वात् किं नियत्या प्रयोजनम् / किमिह पूर्वादिभिरित्याद्यक्षरैर्भावितार्थत्वाचदर्थ नियतिरुपादीयेतैतन्नास्तीत्यभिप्रायः / तत्तु पूर्वादिभिः कृतमेव / यत् पूर्व तद्बीजादि यत् पश्चात् तदङ्कुरादीत्येतयोः पूर्वापरशब्दयोः क्रमात्मकालवाचित्वादिति / तनिदर्शयति / एवमादिविकल्पव्यवहारेषु काल एव भवतीति भावितम् / किं चान्यत्-सर्वसङ्ग्रहेणैव वा यत्पूर्व यत्कार्य तत्पश्चात्क्रमवर्तिनां भावानां कारणकार्यत्वेने सङ्ग्रहात् / पूर्वापरयोः कारणकार्यत्वात् कालत्वाच काल एव भवतीति / एतस्य क्रमव्यवहारस्य सिद्ध्यर्थं त्वयानुक्रमार्थ पुरुष स्वभावमन्यद्वा कारणं तत्कार्य चाश्रित्याप्यवश्यं पूर्वादय आश्रयणीया एव, नियत्यादिमात्रेण पूर्वाधनपेक्षेण व्यवहारासिद्धेः। नियते रेवासिद्धेर्व्यवहारासिद्धिरन्यथेति, पूर्वादिभिर्विना बीजादीनामनियतत्वात् स्वभाववनियत्यभावो नियत्यभावाद् व्यवहारासिद्धिरिति / मम पुनः कालवादिनः पूर्वादिषु तु समाश्रितेषु नियत्या किं क्रियते ? सिद्ध्यत्येव नियत्या विनापि क्रमव्यवहारः, पूर्वादिभिरेव कृतत्वादित्यर्थः। किं चान्यत्-नियतिवादे त्वन्यायेन तु त्वदीयेनैव न्यायेन विदुषां हिता. हितेत्यादि / हितप्राप्त्यर्थ आचारो लौकिकः कृषिवाणिज्यासेवादिरोद॑नपचनभोजनादिश्च दृष्टार्थस्तदुपदेशश्चैतत् कुर्विदं ते श्रेय इति / लोकोत्तरश्चादृष्टार्थो यमनियमादिः / अहितप्रतिषेधार्थश्च लौकिकः क्षारविषकण्टकाग्निशस्त्रादिपरिहारार्थस्तदुपदेशश्च बालादीनां मा कार्षीरिति, लोकोत्तरश्चादृष्टार्थों हिंसानृतस्तेयाब्रह्मादिभ्यो विरतिःश्रेयसीति / तावतावाचारोपदेशावनर्थको स्याताम् / नियत्यैव यद्यवश्यंभाव्यर्थोऽनों वेति किमाचारोपदेशाभ्याम् / किमिव ? चक्षुरूपग्रहणनियतिवत्। यथा चक्षुषा रूपं पश्यन्तं पुरुषं नियत्या स्वभावतोऽन्येन वा केनचित् कारणेन 1 हेतु क-ख। 2 त्वात् ग। ३त्सा क-ख। ४°चक-घ। ५°न घ।