________________ कालवादः] न्यायागमानुसारिण्यलङ्कृतम् / 173 युगपद्वृत्त्यात्मकः काल एव भवतीत्युक्तम् / इदानीं नियतिवादिनो दोषोऽभिधीयते-नियतेस्त्वित्यादि, यावत् सदा सर्वस्य, यत उक्तस्त्वया स्वभाववादिनं प्रति 'बाल्यकौमारयौवनमध्यमाद्यवस्था युगपत् स्युः सर्वाकारस्वभावत्वात् देवदत्तादेरङ्कुरपत्रकाण्डाद्यवस्थाश्च युगपत् स्युर्तीह्यादे'रित्युपालम्भः स एव नियतेः सर्वात्मकत्वात् , कस्मात् ? सर्वाकारनियतैव न भवतीति स्वभावोपालम्भवन्नियत्युपालम्भोऽपि त्वामपि प्रति नियतिवादिनं समानः / सदा सर्वकालं सर्वस्य वस्तुनस्तस्य तस्येति कालाभावेऽतीतानागतवर्तमानाविशेषात् / दृष्टा चातीतानागताकारता वर्तमानाकारता च, वृत्त्यात्मककालाभावानियतेश्चाविशेषादतीतानागतानाकारता वर्तमानानाकारता स्यात / वर्तमानाकारतावदतीतानागताकारतापि स्यात् / न च दृष्टातीतानागताकारता वर्तमानानाकारता वा / स्यान्मतम्-अतीतानागताकारता वर्तमानाकारतावनियतौ विद्यमानैव तिरोभूतत्वान्नोपलभ्यते / वर्तमानाकारता त्वाविर्भूतत्वादुपलभ्यत इत्युक्तत्वादनुत्तरमिति / अत्रोच्यते-अपि च तथापि नैककालातिक्रम इति / एवमपि त्र्याकारताया युगपद्वृत्तायाःक्रमेणाविर्भावतिरोभावावतीतमनागतमिति चैतत् सर्वं कालवाचिशब्दार्थसामर्थ्यप्रतिपादितं कलनं वर्तनं भवनमन्तरेण न स्यादतः कालस्यानतिक्रमणीयता इति / स्वीक्षितमपीत्यादि / एतेन प्रकारेण सुष्टु परीक्षितमपि कालादृते नान्यत् कारणमवस्थानां वाल्यादीनामङ्कुरादीनां च क्रमेणावस्थापकं, रूपादीनां वा युगपदवस्थापकमालक्ष्यते / तस्मात् त्वया नियतानन्तरव्यक्त्यैवाभ्युपगतः कालः / सप्ताह कललं भवति / ततः सप्ताहमर्बुदम् / एवं पेशी धनमित्येवमादिक्रमेण गर्भादिषु पूर्वोक्तावस्थानां पूर्वस्यानन्तरावस्थाऽभिव्यज्यत इत्यनयैव नियताभिव्यक्त्या कालमभ्युपगतमपि नियतिमात्रग्राहदोषेण स्वपक्षरागाच्चाऽनिच्छता त्वयात्मा तेभ्यो गुणवत् कालपक्षपातकृतगुणेभ्योऽपनीयते।मा भूद् ग्राह इत्युक्तेऽतिनिष्ठुरत्वाञ्चित्तपीडेति ग्राहवदाह इति प्राग्व्याख्यातगौणशब्देनोच्यते / अथवा ग्राहोऽभिप्रायो, ग्राहयतीति ग्राहः / तस्याभिप्रायस्य दोषेण स्ववचनाभ्युपगतमपि कालमपश्यन् कालतत्ववादित्वेनाप्ययशोधर्मादिगुणगणादात्मानमपनयसि / यदि नियतिकृतेत्यादि, यावन्न युज्यते, नैवमभ्युपगन्तुं शक्यं नियतिकृतैवार्थानां प्रवृत्तिरित्यनन्तराभिहितदोषसम्बन्धात् कालत्वस्योक्तत्वाच / अभ्युपेत्यापि नियतिकृतत्वं दोषं ब्रूमः- इदं पूर्वमिदं पश्चादिदमिदानीमिदं युगपदिति न युज्यते, पूवोदयः कालत्रयवाचिनः, युगपदित्यभिन्नकालवाची शब्दः / तत्तु कालमन्तरेण लोकप्रसिद्ध व्यवहारजातं न युज्यते। 1 सम्प्राप्तः घ। 2 मतित्रा क-घ। 3 °स्य त्वयैवाग। 4 वा वाथ ग / घ /