________________ 172 नयचक्रम् / [विधिविधिनयेअथ कालवादः। अपरो द्रव्यार्थो विधिविधिनयविकल्प आह-नायमपि नियतिवादः परितोषकरः। एवं तीत्यादि, येयमुक्तज्ञा, इत्थं स्वतंत्रास्वतन्त्रत्वान्नज्ञ एव भवितुमर्हति / किं तर्हि ? नियत्यैव युगपदयुगपञ्चानेकधा क्रियादिकार्यकारणभावनियतमेतदिति भावनयानयैव त्वयोक्तया युगपदयुगपन्नियतरूपादिवीजाङ्कुराद्यथेष्टेनं नियतिरेव भवति। किं तर्हि ? काल एव भवतीति भावितं भवति / 'अपरस्मिन्नपरं युगपचिरं क्षिप्रमिति काललिङ्गानि' (वै.द.२।२।६)इति वचनात् युगपदयुगपनियतार्थानां वृत्तेर्भवनार्थत्वाद्वर्तनस्य काललक्षणत्वादिति / तद्भावनार्थमाह-इह युगपदवस्थायिनो घटरूपादयः, ते किं परस्परं प्रविभक्तितः स्वेनैव भवन्त्युत कालसामर्थ्या? इति वस्तुरूपेण तावचिन्त्यते / तत्र तावन्न केचिदपि वस्तुप्रविभक्तितो भवन्तीति वाक्यशेषः / रूपरसगन्धस्पर्शशब्देभ्यः प्रविभक्त्या प्रविभागेन तद्रूपेण प्रविभक्तितो वा कारणान्न भवति तैः सहोपलभ्यमानमपि तद्व्यतिरेकेणाभावात् / भिन्नेन्द्रियग्राह्यत्वादिति चेत् ऐक्याभावाद्योगपधं नानात्वं च सिद्धम् / न ह्यभिन्नस्य योगपद्यम् / युगस्य स्कन्धयोः पतनं युगपत् / एवमन्यत्रापि। अनेकाश्रयं यौगपद्यम् / अतो रूपादयो युगपद्वर्तन्त इत्येषा वृत्तिःप्रख्यातिदृष्टार्थतः / शब्दतोऽपि च वर्तनं कलनं संख्यानं प्रथनं बुद्ध्या शब्देन वा निरूपणमिति वृत्तिरेव / तस्मात् कलनं काल इत्यक्षरार्थानुसारेण वर्तनं कालस्तं कालात्मानं युगपद्वृत्तिप्रत्याख्यानात्मकमन्तरेण न ते केचिद्रूपादयो युगपद्भवितुमर्हन्ति / तस्माद्रूपादयो युगपदित्येतत् कालसामर्थ्यात् / एवं सूक्ष्मा रूपादय उक्ताः, स्थूला अप्येवं घटे ग्रीवादयः / तथावृत्तेर्युगपद्वृत्तेः / कस्य ? कालात्मनः / एवं वृत्तिश्च भवनमित्यत आह-तथाभवनादिति / मृल्लोष्टादयः मृदिति लोष्टादयः / एवं युगपद्वत्तेः पृथिवी मृदादय एव / तथावृत्तेरेवं मृल्लोष्टताश्मसिकतादयः / एवं द्रव्यं पृथिव्यादयः पृथिव्यप्तेजोवाय्वाकाशादयो युगपद्वृत्तयो द्रव्यम् / द्रव्यादयो भावः / द्रव्यगुणकर्मणां सप्रभेदानां भाव इत्याख्या युगपद्धवनात् / एवं तावद् युगपद्वत्तिः काल एव भवतीति भावितम् / क्रमवृत्तिनियतिरपि काल एव भवतीति भाव्यते / तत आह-अयुगपद्भाविनोऽपि इत्यादि, यावदापत्तेः / अयुगपद्भवितुं शीलमस्येत्ययुगपद्भावी / तस्यायुगपद्भाविनोऽभवितुकामस्याभवनाभिमुखस्य बीजाङ्कुरादेर्वस्तुनो यदि वृत्त्यात्मककालभावो नाभ्युपगम्यते ततो वर्तनादतिरिक्तस्य कस्खचिदप्यनुपपत्तिरापद्यते वर्तनाऽभावात् वन्ध्यासुतवत् / ततश्चानुपपत्त्यापत्तेः सति वर्तनात्मके काले तदुपपत्तेः कालात्मकता / एवं तावन्नियतार्थाभ्युपगमः कालमन्तरेण न भवतीति युगपद१°ज्ञाझं ग-घ। 2 स्वतन्त्रात्रतन्त्रस्वान क-ख। 3 देव च ते क-घ / 4 वर्तते ग /